________________ स्तवकः ] . कल्पलतावतारिका ( कल्पलता ) . ऐन्द्रश्रेणिनताय दोषहुतभुग-नीराय नीरागता धीराजद्विभवाय जन्मजलधेस्तीराय धीरात्मने // गम्भीरागमदेशिने मुनिमनो-माकन्दकीराय स नासीराय शिवाध्वनि स्थितिकृते वीराय नित्यं नमः॥१॥ अन्वयः-ऐन्द्रश्रेणिनताय, दोषहुतभुग्-नीराय, नीरागताधीराजद्विभवाय, जन्मजलधे: तीराय, धीरात्मने, गम्भीरागमदेशिने, मुनिमनोमाकन्दकीराय, सन्नासीराय, शिवाध्वनिस्थितिकृते, वीराय नित्यं नमः // 1 // ( कल्पलतावतारिका) ऐन्द्रश्रेणिनताय-इन्द्रस्य देवाधिपतेरियमैन्द्री सा चासौ श्रेणिः पङ्कितरैन्द्रश्रेणिः, तया नताय नमस्कृताय, देवेन्द्रकदम्बकप्रणतायेत्यर्थः / दोषहुतभुगनीराय-दोषा दूषणान्येव हुतभुजो वह्नयो दोषहुतभुजस्तेषां कृते नीराय जलरूपाय, दोषानलशमनस लिलस्वरूपायेत्यर्थः / अत्रालकृति: परम्परितरूपकम् / नीरागताधीराजद्विभवाय. रागाद् अनुरागात्, द्वेषात्, रागद्वेषाभ्याश्च निर्गतो नीरागः, तस्य भावो नीरागता, तया संवलिता धी:- बुद्धिर्नीरागताधी: 'मयूरव्यंसकत्यादयः' 3 / 1 / 126 // इत्यनेन शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समासः / 'रागोऽनुरागे क्लेशादौ, मात्सर्ये लोहितादिषु' इति शाश्वतः, तया राजमानो दीप्यमानो विभव ऐश्वर्यं यस्य स नीरागताधीराजद्विभवस्तस्मै तथा-'विभवो रैमोक्षैश्वर्ये' इति मेदिनी / यद्वानीरागता रागाभावः, वीतरागतेति, धीः सम्यग्बुद्धिः केवलज्ञानं वा, नीरागता च धीश्च नीरा. गताधियौ ताभ्यां राजमानोविभवो यस्य तस्मै तथा, सम्यग्बुद्धि केवल