________________ 248] शाखवातासमुच्चयस्य . [ दशमः नचागमविधिः कश्चिद्, नित्यः सर्वज्ञबोधकः / न च मन्त्रार्थवादानां, तात्पर्य्यमवकल्प्यते // 2 // .. तच्चान्यार्थप्रधानैस्तैस्तदस्तित्वे विधीयते / नचानुवदितुं शक्यः , पूर्वमन्यैरबोधितः // 3 // अनादिरागमस्याओं, न च सर्वज्ञ आदिमान् / कृत्रिमेण त्वसत्येन, स कथं प्रत गद्यते // 4 // अथ तद्वचनेनैव, सर्वज्ञोऽज्ञैः प्रतोयते / प्रकल्प्येत कथं सिद्धिान्योन्याश्रययोस्तयोः // 5 // सर्वज्ञोक्तठया वाक्यं, सत्यं तेन तदस्तिता / कथं तदुभयं सिद्धयेत्, सिद्धमूलान्तगहते // 6 // असर्वज्ञपणीतात्त, वचनाद् मूलवर्जितात् / सर्वज्ञमवगच्छन्त:, स्ववाक्यात् किन्न जानते // 7 // ... स्वज्ञसदृश कञ्चिद्, यदि पश्येम सम्प्रति / उपमानेन सर्वज्ञ, जानीयाम ततो वयम् // 8 // उपदेशो हि बुद्धादेधर्माधर्मा दगोचरः / अन्यथा नोपपद्येत, सावैश्यं यदि नो भवेत् // 6 // तथासर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु / प्रमाणं दूरदर्शी चेदेतान् , गृध्रन प्रपूजय // 1 // / तदभिमानिरासपूर्वकस्वाभिमतसिद्धयर्थ सर्व एवेति पक्षवि. शेषणम् / न चैवं घटादेः पक्षप्रविष्टत्वे सपक्षत्वानुपपत्ति:, तदप्रवि. ष्टत्वे च “सर्व एव" इत्यसिद्धमिति वाच्यम् पक्षप्रविष्टत्वेऽपि निश्चित. साध्यधर्मत्वेन सपक्षत्वागिरोधात्, तत्र गौरवेण पक्षातिरिक्तत्वानिवेशात् / न च तथाप्यंशत: सिद्धसाधनम् पक्षसामान्ये साध्यासिद्धथा