________________ स्तबकः ] कल्पलतावतारिका [ 247 भाव एव परम्परया तर्कम्तदा प्रकृतेऽपि धर्माद्यध्यक्षज्ञानयोः स एवाश्रीयताम्, विना सर्व धर्मादेरपरिज्ञानात्, अस्मदादीनां बुद्धादीनाश्च च्छद्मस्थत्वाद् दृष्टेष्टविरुद्धभाषित्वाच्चाहत्येव धर्मादिसाक्षात्कर्तृत्वविश्राम:, तेन न साध्यासिद्धिरिष्टासिद्धिर्वा, साध्यकोटौ विशिष्यानिवेशात् परिशेषस्य विशेषपर्यवसायित्वाच्चेतिद्रष्टव्यम्, सर्वज्ञवादिभिरपि कैश्चित् सर्वज्ञः कतिपयेष्टार्थविज्ञातैवाभ्युपगम्यते, न तु विश्वद्रष्टा, तथाचोक्तम् सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु / कीटसंख्या परिज्ञानं, तस्य नः कपयुज्यते // 1 // कार्य एवार्थे प्रामाण्यव्यवस्थापनेन सर्वज्ञप्रतिपादने तस्याऽप्रमाणत्वात्, यश्च हिरण्यगर्भ प्रकृत्यं य: सर्ववित् स लोकवित्" इत्यादिरागमः, तम्यापि कर्मार्थवादप्रधानत्वेन सकलज्ञविधायकत्वानुपपत्तेः / नापि सकलज्ञस्यानुवादकोऽसौ पूर्वमन्यैः प्रमाणैरबोधितस्य तस्यानुवदितुमशक्यत्वात् / अप्रत्यक्षत्वत: कारणादुपमानेनापि नैव गम्यते सर्वज्ञः, तस्य सादृश्यविषयकत्वात्, उपमितौ सादृश्यज्ञानस्य करणत्वादिति, सादृश्याश्रयदर्शननान्तरीयकत्वाच्च, पदवाध्यत्वविषयकत्वे चात्र तस्यानुपयोगाच। अर्थापत्त्याख्यप्रमाणेनापि सर्वज्ञो नैव ग्रहीतुं शक्यते धर्मदेशनादीनां सर्वेषामर्थानां सर्वज्ञ विनाप्युपपत्तेः, बुद्धादीनां स्वप्नोपलब्धार्थोपदेशतुल्यस्य व्यामोहपूर्व कस्य मन्वादीनाञ्च साङ्गाध्ययनममासादितव्युत्पत्तिविशेषाकलितनिखिलवेदार्थानां सम्यग्ज्ञानपूर्वकस्योपदेशस्योपपत्तेः / तथाचोक्त भट्टी: सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः / दृष्टो न चैकदेशोऽस्ति, लिङ्गं वा योऽनुमापयेत् // 1 //