________________ 246 ] शास्त्रवार्तासमुच्चयस्य [ दशमः स्यातिदूरत्वादिनाऽग्रहणात् तदभावाऽसिद्धः, अन्यथा धर्मादेरप्यभावप्रसङ्गात्। अनिष्टं चैतत् मीमांसकस्याप्यास्तिकताभिमानिन: / चार्वाकस्तु वराकोऽतीन्द्रियमात्रोच्छेदमिच्छन्ननुपलब्धिमात्रादर्थाभावं साध. यन् स्वगृहान्निर्गतः स्वगृहे पुत्रादीनामप्यभावमवगच्छेत् , अधिकरणासन्निकर्षाद् न तदवगम इति चेत् तीतीन्द्रियाश्रयस्याप्यसन्निकर्षे तदभावासिद्धेर्हत चार्वाकमतम् , अधिकरणज्ञानमात्रादतीन्द्रियाभाव. सिद्धौ च प्रकृतेऽप्यधिकरणस्मृतिसत्त्वात्तदापत्तिः। तदुपलम्भकस्वभावेनानुपलब्धेस्तदभावसाधकत्वं त्वसम्भवदुक्तिकम् , स्वभावविरोधा. दिति न किञ्चिदेतत्, तदेवं प्रत्यक्षं न बाधकमित्युक्तम् / अनुमानमपि सर्वज्ञसाधकमेव, तथाहि-"सर्वे धर्मादयोऽध्यक्षाः ज्ञेयत्वात्, घटवत्" इत्यनुमानेन धर्मादीनामतीन्द्रियाणामपि प्रत्यक्षत्वसाधनात् तत्प्रत्यक्षवान् सर्वज्ञ एव स्वीकार्यः / साध्यहेतुविकल्पकतदोषस्तु प्रसिद्धपर्वतादिपक्षकवह्नयाद्यनुमानेऽपि समान एव, तथाहियदि पर्वतीयो वह्निः साध्यते तदा साध्यविकलो दृष्टान्तः, अथ महानसीयस्तदा बाध एव, एवं धूमोऽपि यदि पर्वतीयो हेतुस्तदाऽनन्वयः, यदि च महानसीयस्तदाऽसिद्धता, सामान्यलक्षणयोपग्रहोऽप्यतिविलक्षणव्यक्त्योरसम्भवीति विज्ञेयम् / यदि च वह्नयनुमाने पक्षदृष्टान्तहेतुसाध्यव्यक्त्योरत्यन्तवैलक्षण्याननुभवात् सामान्योपग्रहेणैव दोषोद्धारः, व्याप्तिबलात् सामान्यसिद्धावपि पक्षधर्मताबलान्नियत विशेषसिद्धेरित्युपगम्यते तदा प्रकृतेऽपि तुल्यम्, नचात्राप्रयोजकत्वम् विपक्षबाधकतर्काभावादिति वाच्यम् "ज्ञानं साश्रयं गुणत्वात् रूपादिवत्" इत्यादाविव बाधकामावे निरुपाधिसहचाररूपस्यैव तर्कस्य सत्त्वात् / अन्यथेदृशानुमानसहस्रोच्छेदात् , यदि चात्रगुणाश्रययोः कार्यकारण