________________ स्तबकः ] कल्पलतावतारिका [245 मम् / नास्तिकत्वम्-सर्वज्ञाभावस्वीकरणजनिताऽऽस्तिकत्वाभावः / आपतति-समागच्छति / वेदनैपुणपटाऽपगमेन-वेदे नैपुणं प्रावीण्यमेव नास्तिकत्वाच्छादक वात् पटो वस्त्रम् तस्यापगमो दूरीकरणम् वेदनैपुणपटावगमस्तेन तथा / अनेकसमक्षम् - बहुजनप्रत्यक्षम् / तत्-तारान.स्तिकत्वम् दर्शयन्ति- कटीकुर्वन्ति सिद्धान्तिन आर्हता इति शेषः / ___ अथ मीमांसकाक्षेपसमाधानम् (शास्त्रवार्ता) अत्रापि त्रुवते केचिदित्थं सर्वज्ञवादिनः / प्रमाणपञ्चकाऽवृत्तिः, कथं तत्रोपपद्यते // 12 // ___ अन्वयः- अत्र, अपि, सर्वज्ञवादिनः, केचित् इत्थम् . ब्रुवते, तत्र, प्रमाणपञ्चकावृत्तः, कथम् , उपपद्यते, इति / ___ (अव) अत्र-मीमांसकानां सर्वज्ञाभाववादे / अपि-खलु / सर्वज्ञवादिनः-सर्वज्ञास्तित्वमन्तार: / केचित्-अनिमतसामान्या:, जैना इति यावत् / इत्थम्-एवम् / ब्रुवते-निगदन्ति / यत्, तत्रबुद्धिविषयीभूते सर्वज्ञे। प्रमाणपश्चकावृत्तिः-अभावप्रमाणोत्थापिका प्रमाणपश्चकाऽविषयता / कथम्-केन प्रकारेण / उपपद्यते-संगच्छते, उपपन्ना भवतीति यावत् , नैवोपपद्यते इति भावः / __ तथाहि-सर्वज्ञनिषेधकारिप्रत्यक्षं चेद्विश्वगोचरम् तदा सर्वज्ञाभावोऽमिद्धः, विश्वगोचरज्ञानाश्रयस्यैव सर्वज्ञत्वात्, न चेत्तत्प्रत्यक्षं सर्वार्थविषयम् तदाऽपि सर्वज्ञाभावोऽसिद्ध एव, प्रत्यक्षेण सतोऽप्यर्थ