________________ 244 ] शास्त्रवार्तासमुच्चयस्य [ दशमः अनातोक्तत्वशङ्काया एव शाब्दसामान्य विरोधिन्या व्युदासार्थमाप्तोक्तत्वनिश्चयापेक्षणात् वेदे तु नित्यतया निर्दोषत्वेनैव तच्छकाव्युदासात् / एवश्च चाक्षुषहेतुप्रकाशवत् , नित्यनिर्दोषतया वंदे सर्वप्रम तृतुल्यप्रमाजनके सति धर्माधर्मपरिज्ञात: मनुष्य: किमर्थं कल्पनीयः ? चोदनैव हि धर्माधर्माववगमयन्ती प्रवृत्तिनिवृत्त्यादिव्यवहारं स्वर्गापर्वागादिफलं च ज नयतीति किमजागलस्तनायमानेन सर्वज्ञेनेति, चोदनाप्रामाण्यार्थं सर्वज्ञः कल्प्यते इति चेत् न, उपजीव्यत्वेन महाजनपरिग्रहस्यैव तःप्रामाण्यव्यवस्थापकत्वात् / इष्टापूर्तादित्र्यात्मककर्मव्यवस्था वेदादेवोपपादनीया। वर्णाश्रमव्यवस्थापि वेदप्रभवैवावगन्तव्याऽतश्चातीन्द्रियार्थद्रष्ट्रा सर्वज्ञेन पुंसा नामित किश्चित्प्रयोजनमिति / तत्साध्यस्य पर कोकादिसाधनस्य वेदादेव सिद्धेः, मुक्तिश्च न सार्वश्यगर्भा, दुःखनिवृत्तिरूपाया नित्यनिरतिशयसुखाभिव्यक्तिरूपायास्तदगर्भवादिति निगर्वः / तत्राहुरूपाध्यायाः(कल्पलता) इत्यमापतति जैमिनिशिष्ये, नास्तिकत्वमिह यत् खलु गूढम् / दर्शयन्ति तदनेकसमक्षं, वेदनैपुणपटापगमेन // 4 // अन्वय:- इत्थम् , इह, जैमिनिशिष्ये, यत् , खलु, गूढम् , नास्तिकत्वम्, आपतति, वेदनैपुणपटापगमेन, अनेकसमक्षम् , तत्, दर्शयति / (कल्पलतावतारिका) इत्यम्-अनेन पूर्वोकेन प्रकारेण। इह-सर्वज्ञाभावनिरूपणप्रस्तावे / जैमिनिशिष्ये-जैमिन्यन्तेवासिना, मीमांसकहतकेनेति यावत् / यत्-बुद्धिविषयीभूतम् / खल-निश्चयेन.. गूढम्-समाच्छ