________________ स्तवकः ] कल्पलतावतारिका [243 दुर्घहत्वम् , उपलम्भस्य तावदतीन्द्रियतया तदभावस्याज्ञातानुपलब्ध्यगम्यतया ज्ञातानुपलब्धिगम्यत्वेऽनवस्थापातात् , प्राकट्याभावस्यापि रूपाभावतुल्यतया तेन तदनुमानायोगात्, कायवागव्यवहाराभावे. ऽप्युपेक्षाज्ञानसत्त्वात् व्यवहाराभावेनापि तस्याननुमेयत्वादिति वाच्यम् मनोजन्यवायुज्ञानसत्त्वात् , प्राकट्याभावेन मनोग्राह्येण रूपानुपलम्भानुमानसम्भवात् , “वायौ रूपाभावं पश्यामि” इति बुद्धिस्तु भ्रमात्मिकैव / अथानुपलम्भे विशेषाभावाच्चक्षुषाऽभावग्रहे आलोको हेतुर्नतुत्वचेति कुत: ? इति चेत् सत्यम् , चक्षुरादेरिवाऽऽलोकादेरप्यधिकरणज्ञानविशेष एवोपयोगात् / अथ सर्वज्ञाभावस्वीकारे धर्माधर्मव्यवस्था कथमुपपद्यतेति चेत् - "यागादि धर्मसाधनम्" "ब्रह्महत्याद्यधर्मसाधनम्" इत्यादिज्ञानजन्यप्रवृत्तिनिवृत्त्यादिरूपायास्तस्या: (धर्माधर्मादिव्यवस्थायाः) वेदाख्यादागमादेव संघटमानत्वात् / न च वेदस्यापि सर्वज्ञप्रणीतस्यैवोक्तव्यवस्थानिबन्धनत्वात् सर्वज्ञमूलैवेयं व्यवस्था स्यादिति वाच्यम् , वेदस्यापौरपेयत्वात् , चक्षुर्गतभ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषविकलत्वाच्च / ____ अथाप्रमायामिव प्रमायामपि ज्ञानसामान्यहेत्वतिरिक्तहेत्वपेक्षरणाद् नैतद्युक्तमिति चेन्न-अप्रमायां दोषापेक्षणात् , प्रमायां तदभावापेक्षणेऽविरोधात् / विशेषादर्शनाद्यभावभूतदोषाभावस्य भावभूतस्य प्रमायामधिकस्यापेक्षणीयत्वाद् विरोध एवेति चेत् न तथापि शब्दे विप्रलिप्पादिदोषाणां भावभूतत्वात् समष्टया प्रमायां तदभावमात्राधीनायां वक्तृगुणानपेक्षणात् / नचाप्तोक्तत्वनिश्चयस्य शाब्दबोधसामान्ये हेतुतया वेदे तदभावात् कथं ततः शाब्दबोध इति वाच्यम्