________________ 242 ] शास्त्रवासिमुच्चयस्य [ दशमः नतावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः / भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि // 1 // ननु भावादभिन्नत्वात् संप्रयोगोऽस्ति तेन च / नह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः // 2 // नचैवं तदभावज्ञानमनुमानम् , लिङ्गाभावात् / तथाचोक्तम् नचाप्यस्यानुमानत्वं, लिङ्गाभावात् प्रतीयते / भावांशो ननु लिङ्गं स्यात् , तदानीमजिघृक्षणात् // 1 // अभावावगतेर्जन्म, भावांशे ह्यजिघृक्षिते / तस्मिन् प्रतीयमाने तु नाभावे जायते मतिः // 2 // तस्मात् " नास्ति" इति ज्ञाने फले प्रतियोगिग्रहणपरिणामा. भावरूपम् , हानादिबुद्धिरूपे च फलेऽन्यवस्तुज्ञानरूपमभावाख्यं प्रमाणमेष्टव्यम् / तदुक्तम् प्रत्यक्षादेरनुत्पत्तिः प्रमाणभाव उच्यते / सात्मनोऽपरिणामो वा, विज्ञानं वान्यवस्तुनि // 1 // नचैवमभावज्ञानं इन्द्रियान्वयव्यतिरेकानुविधायित्वं न स्यादिति भ्रमितव्यम् , तस्याधिकरणग्रहणापेक्षणीयत्वात् अधिकरणग्रहणप्रतियोगिस्मरणयोस्तत्र हेतुत्वात् / तदुक्तम् -- गृहीत्वा वस्तुसद्भावं, स्मृत्वा च प्रतियोगिनम् / / मानसं नास्तिताज्ञानं, जायतेऽक्षानपेक्षया // नचाधिकरण ज्ञानस्य हेतुत्वेऽन्धस्यापि त्वगिन्द्रियोपनीते घटादौ नीलाद्यभावग्रहः स्यादिति वाच्यम् , प्रतियोगिग्राहकेन्द्रियजन्याधिकरणज्ञानस्य तथात्वात् / नचैवं त्वगिन्द्रियोपनीले वायौ रूपाभावप्रतीत्यनुदयप्रसङ्गः-रूपानुपलम्भेन तदभावानुमानात / नच हेतोरपि