________________ स्तमकः ] कल्पलतावतारिका [241 धूमात् इत्यादौ ज्ञायमानलिङ्गस्यासत्त्वादनुमित्यनुपपत्त्या व्याप्तिज्ञानाम्यैवानुमितिकरणत्वं स्वीकरणीयम् , अत एवोक्तं कारिकावल्यां विश्वनाथपश्चाननेन "अनुमायां ज्ञायमान लिङ्गं तु करणं न हि / अनागतादि लङ्गेन, न स्यादनुमितिम्तदा" इति। एवञ्च सर्वज्ञानुभितिकरणस्य व्याप्तिज्ञानस्याभावान्न सर्वज्ञेऽनुमान प्रमाणं भवितुमर्हतीति। भागमेनापि प्रमाणेन सर्वज्ञो नैव ग्रहीतुं शक्यते, तम्य विधि नषेधबोधकत्वात् / आगमेन यदि सर्वज्ञसिद्धिः स्यात् सा नित्यादागमादनित्याद्वा ? नाद्यः सर्वज्ञसिद्धौ सत्यां हि कृत्रिमस्याऽऽगमम्य तत्प्रणीतत्वेन प्रामाण्य सिद्धिः, तत्सिद्धौ च ततस्तमिद्धिरित्यायोन्याश्रयात् , नचासर्वज्ञप्रणीत आगमः प्रमाणं युज्यते अः यथा स्ववचनादेव तत्सिद्धिः स्यादिति / नापि द्वितीय: पक्ष:- नित्यस्याऽऽगमस्य / बद्धादयो ह्यवेदज्ञास्तेषां देदादसम्भवः / उपदेशः कृतोऽतस्तै-मोहादेव कल्पनात् // 10 // ये तु मन्वादयः सिद्धा: प्राधान्येन त्रयीविदाम् / त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः // 11 // एवञ्च पश्चानामपि प्रमाणानां विधिप्राहिणामप्रवृत्तेः, सर्वज्ञे. ऽभावनिश्चय एवेति / तथाचोक्तम् प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते / वस्तुपत्तावबोधार्थं तत्राभावप्रमाणता // नचाभावस्य पृथक् प्रमाणत्वमसिद्धम् , अभावग्राहिणस्तस्य पार्थक्यावश्यकत्वात् , नहीन्द्रियेणाभावज्ञानं जनयितुं शक्यम् , भावांशे. नैवेन्द्रियस्य संयोगात् / नच धर्म्यभेदाद् भावांशेन सहाभावांशम्या. भेदे सतीन्द्रियसंयोगोपपत्तिः, अभिन्ने धर्मिणि रूपरसयोरिव भावा. : भाषांशयोरन्योन्य भेदात् / तदुक्तम्