________________ 240 ] शास्त्रवार्तासमुच्चयस्य [ दशमः सर्वज्ञाभाववादिना मीमांसकेन सह वार्तान्तरमाह ग्रन्थकार:(शास्त्रवार्ता) अत्राप्यभिदधत्यन्ये, सर्वज्ञो नैव विद्यते / तद्ग्राहकप्रमाभावादिति-न्यायानुसारिणः॥१॥ ___ अन्वय: - अत्र, अपि, तद्ग्राहकप्रमाभावादितिन्यायानुसारिणः, अन्ये, सर्वशः, नैव, विद्यते (इति) अभिदधति / / (अव०) अत्र-मोक्षवादे / अपि--खलु / तद्ग्राहकप्रमाभावादितिन्यायानुसारिणः-सर्वज्ञग्राहकप्रमाणाभावादित्यात्मकन्यायानुसरणशीला: / अन्ये--मीमांसकाः / सर्वज्ञः-सर्वज्ञपदवाच्यः / नैवन खलु / विद्यते-वर्तते / कचिदपि कश्चिदिति शेषः / इति-इत्येवम्) अभिदधति-निगदन्ति / प्रमाणाधीनतयैव प्रमेयसिद्धः सर्ववादिभिः स्वीकारादिति भावः। ____ न च सर्वज्ञे प्रत्यक्षस्य प्रमाणस्यैव सत्त्वात् कथं प्रमाणाभाव इति वाच्यम् इन्द्रियसन्निकर्षाभावात् , तत्रैवेन्द्रियं प्रमाणं भवति यत्र तत्सग्निकर्षषट्कान्यतमं तिष्ठति यथा “अयं घट:' इत्याकारकघटप्रत्यक्षे चक्षुःसन्निकर्षस्य सत्त्वात् द्रव्यवृत्तिलौकिकविषयतासम्बधेन चाक्षुषत्वाद्यवच्छिन्न प्रति चक्षुरादिसंयोगस्य हेतुत्वात् / एवमविना. भावि लिङ्गमपि सर्वज्ञगमकत्वाभिमतं न किश्चनात्र विद्यते, यथा वह्नयविनाभावी धूमः पर्वते दृष्टः सन् वह्निमवगमयति तथा न कश्चन सर्वज्ञाविनाभावी हेतुरूपलक्ष्यते येन सर्वज्ञावगम: स्यात् , इदश्च ज्ञायमानलिङ्गस्यानुमितिकरणत्वाभिप्रायेण / वस्तुतस्तु "इयं शाला भाविवहिमती भाविधूमात्" इयं शालाऽतीतवह्निमती अतीत