________________ स्तक्कः ] कल्पलतावतारिका [236 अष्ट-प्रष्टत्वसङ्घयाकाः। अर्थसिद्धीः-अणिमाद्यर्थसिद्धीः / लधिमावशितेशिव, प्राकाम्यं महिमाऽणिमा / यत्रकामावसायित्वं, प्राप्तिरैश्वर्यमष्टधा // 2.2 / / ( अ. चि० ) इत्युक्ताः। दित्सुः-दातुमिच्छुः / जगति-संसारे / विधृतरूपः--धृतशरीरः / जिनभास्वान्-तीर्थकद्रूपो दिवाकरः / अथवा जिनो भास्वान् सूर्य इवेतिविग्रहे "उपमेय व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 / / इत्यनेनोपमितसमासः, सूर्यसमानतेजस्वी जिन इत्यर्थः / अष्टधा--अष्टप्रकाराम् / कष्टधाराम्कष्टपरम्पराम् / दलयतु-विनाशयतु / रूपकोपमोत्प्रेक्षालङ्काराः / कविनिष्ठजिनवरपार्श्वनाथविषयकस्य रत्याख्यभावस्याभिव्यञ्जनाद्रावध्वन्यात्मकं काव्यमिदम् / (कल्पलता) लब्धोदयायां हृदये, यस्यां प्रक्षीयते तमः। पुण्यप्राग्भारलभ्यां तां कलां कामप्युपास्महे // 3 // अन्वयः-हृदये, यस्याम् , लधोदयाम् , तमः, प्रक्षीयते, पुण्यप्राग्भारलभ्याम् , छामपि, ताम् , कलाम , उपास्महे / (कल्पलतावतारिका) . हृदये-अन्तःकरणावच्छेदेन / अवच्छेदकत्वं सप्तम्यर्थः, शरीरे. आत्मेतिवत् / यस्याम्--बुद्धिविषयीभूतायां सरस्वत्याम् / लब्धोदयायाम्--कृतावस्थानायाम् / (सत्याम् ) तमः-अन्धकारात्म. कमज्ञानम् / प्रक्षीयते-प्रकर्षण क्षीयते, विनिश्यतीति यावत् / पुण्यप्राग्भारलभ्याम्-पुण्यकदम्बकप्राप्याम्। कामपि-अनिर्वचनीयाम् . अनिर्वचनीयस्वरूपां वा / ताम्-बुद्धिविषयीभूतां सरस्वतीम् / कलाम--तीर्थकृत्कलारूपाम् , सरस्वती देवीम् / उपास्महे. पूजयामः /