________________ 238 ] शास्त्रवार्तासमुच्चयस्य [दशमः बोधदायिनीति यावत् / यम्-बुद्धिविषयीभूतं चरमतीर्थकृतम् / दोषा:कामक्रोधादिदूषणानि / न-नहिं / समाश्रयन्ति स्म-समाशिश्रियुः। इमम्-तम् / इदमस्तच्छन्दार्थत्वमवसेयम् / श्रीवर्धमानम्-श्रिया ज्ञानवैराग्यादिलक्ष्या सहितो वर्धमानः श्रीवर्धमानस्तन्तथा / स्तुम:स्तवीमः, वर्णयाम इति यावत् / अत्र महामहोपाध्यायगत-भगवन्महावीरविषयकरत्याख्यो भावो ध्वन्यते इति ध्वन्यात्मकमुत्तमं कान्य- . मिदम् / उपमा चालङ्कारः / (कल्पलता) फणिपतिफणरत्नप्रान्तसंक्रान्तमूर्तियुगपदिव दिधक्षुः स्पष्टमष्टापि बन्धान् / जगति विधृतरूपो दित्सुरष्टार्थसिद्धी दलयतु जिनभास्वानष्टधा कर्मधाराम् // 1 // अन्वयः - फणपतिफणरत्नप्रान्तसंक्रान्तमूर्तिः, युगपत् , स्पष्टम् , अष्ट, अपि, बन्धान् , दिधक्षुः, इव, (स्थित: ) अष्ट, अर्थसिद्धीः, दित्सुः, जगति, विधृतरूपः, जिनभास्वान् , अष्टधा, कर्मधाराम्, दलयतु / (कल्पलतावतारिका) फणिपतिफणरत्नप्रान्तसंक्रान्तमूर्तिः-फरिण पतेः शेषनागस्य फण. रत्नानां सटामणीनां प्रान्तः पर्यन्तभागैः संक्रान्ता सम्बद्धा मूर्तिः कलेवर यस्य स तथा / युगपत-एककालावच्छेदेन / स्पष्टम् प्रकटम् / अष्ट-अष्टत्वसंख्याभाज: फणिपतेः सप्तफणास्तत्रस्थितमणिप्रतिविम्बितसप्तमूर्तय एका च स्वीया इत्यष्टौ / अपि-समुच्चये / बन्धान-कर्मबन्धनानि / दिधा--दग्धुमिच्छुः / इव-उत्प्रेक्षायामव्ययम् / (स्थितः)