________________ स्तवक: ] कल्पलतावतारिका [ 237 * दशमस्तवकः .. व्याचिख्यासितस्तवक-स्याद्वादकल्पलतासमाप्तिप्रतिबन्धकप्रत्यूहव्यूहोपशमनाय मङ्गलार्थ श्लोकत्रयं निर्दिशन्त्युपाध्यायाः- ..... (कल्पलता) यज्ज्ञानोज्ज्वलदर्पणे प्रतिफलत्येतज्जगद् यत्पदाम्भोजे नम्रसुपर्वनाथमुकुटश्रेण्या मरालायितम् / वाणी सर्वशरीरिवाक्परिणता यस्यागपूर्वार्थमू- . दोषा नस्म समाश्रयन्ति यमिमं श्रीवर्धमानं स्तुमः // 1 // अन्वयः- यज्ज्ञानोज्ज्वलदर्पणे, एतत् , जगत् , प्रतिफलति, यत्पदाम्भोजे, नम्रसुपर्वनाथमुकुटश्रेण्या, मरालायितम् , अङ्गपूर्वार्थसूः, यस्य, वाणी, सर्वशरीरिवाक्परिणता, यम् , दोषाः, न, समाश्रयन्ति, इमम् , श्रीवर्धमानम् , स्तुमः / (कल्पलतावतारिका) यज्ज्ञानोज्ज्वलदर्पणे-यदीयकेवलज्ञानरूपसमुज्ज्वलमुकुरे / एतत्प्रत्यक्षं दृश्यमानम् / जगत्-भुवनम् / प्रतिफलति--प्रतिबिम्बतामासादयति / यत्पदाम्भोजे-यदीयचरणकमले। नम्रसुपर्वनाथमुकुटश्रेण्यानम्रीभूतदेवेन्द्रकिरीटपकृत्या। मरालायितम्-मराल(हंस)वदाचरितम् / अङ्गपूवार्थसूः-अङ्गसूत्राणां पूर्वाणाञ्च चतुर्दशसंख्यानामर्थस्य प्रसूः जन्मदात्री। भगवतोऽर्थमधिगत्य गणधरा रचन्ति द्वादशाङ्गीमिति यावत् / यस्य--बुद्धिविषयीभूतम्य भगवतो महावीरस्य / वाणी--देशनावाक् / सर्वशरीरिवाक्परिणता - समस्तजीववचनरूपेण परिणता / अथवा समस्तजीवानां कृतेऽर्थबोधकशब्दतामापन्ना, समस्तप्राणिनां तत्त्वार्थ