________________ 236 ] शास्त्रवातासमुच्चयस्य नवमः चारित्रजनितनित्यसुखरूपम् / मोक्षम्-महानन्दम् / लब्धवान्प्राप्तवान् / सः-तादृशो बुद्धिविषयः / भगवान् - ज्ञानवैराग्यादिषड्विधैश्वर्यसंवलितः प्रभुः / एव-अवधारणार्थकमव्ययम् / स्वप्नेस्वप्नावस्थायाम् / अथवा जागरे-जाग्रदवस्थायाम् / अस्माकम् आहतानाम् / शरणम्-गतिः / भवत्विति शेषः / तीर्थकृदेवपरमकल्याणकारको नान्य इति ध्वन्यते / मोक्षश्च तदुपायश्च, वर्तते श्रीजिनोदितः / स्तवके नवमें प्रोक्तो. दूरीकृतदिगम्बरः // 6 // / इति शासनसम्राट्-तपागच्छाधिपति सर्वतन्त्रस्वतन्त्र-जगद्गुरुबालब्र ह्मचारिभट्टारकाचार्यमहाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कार। शास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्यश्रीविजयामृतसरिवर सन्दृब्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय - कल्पलतानुसारिण्या-1 / कल्पलतावतारिकायां नवमः स्तवकः /