SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ स्तवक्रः ] कल्पलताबतारिका / 235 सिताम्बरसमाश्रितम्-श्वेताम्बरसंसेवितम् / चारु-मनोहरम् / जैनेघरम्-जिनेश्वरभाषितम् / शासनम्-शास्त्रम् / जयति-विजयते, सर्वोत्कर्षेण वर्तते इति भावः / अनुप्रासालङ्कारः / (कल्पलता) यः साक्षात्कृतमोक्षसाधनविधिस्तीव्र तपस्तप्तवान् , यः कर्माण्यपनीतवान् परिणमत्संज्ञानयोगाशयः / नित्यज्ञानचरित्रदर्शनसुखं मोक्षं च यो लब्धवान् , अस्माकं शरणं स एव भगवान् स्वप्नेऽथवा जागरे॥१४॥ अन्वयः- साक्षात्कृतमोक्षसाधनविधिः, यः, तीव्रम् , तप, तप्तवान् , परिणमर्क्सशानयोगाशयः, यः, कर्माणि, अपनीतवान् , च, यः, नित्यशानचरित्रदर्शनसुखम् , मोक्षम , लब्धवान् , सः, भगवान् , स्वप्ने, अथवा, . जागरे, अस्माकम् , शरणम् // 14 // (कल्पलतावतारिका) ____ साक्षात्कृतमोक्षसाधनविधिः-साक्षात्कृत: प्रत्यक्षीकृतो मोक्षसा. धनविधिर्मुक्तिसाधनोपायो येन स तथा / य:-बुद्धिविषयीभूतो भग वान् / तोत्रम्--दुःसहम् / तपः-तपस्याम् / तप्तवान्-तताप। परिणमत्संज्ञानयोगाशयः-परिणमता परिपाक गच्छता संज्ञानयोगेन तदाख्ययोगविशेषेण विशिष्ट आशयोऽन्तःकरणं यर' स तथा / य:-बुद्धिविषयोभूतो भगवान् / कर्माणि - ज्ञानावरणीयाद्यष्टविधकर्मकलापानि / अपनीतवान्-दूरीकृतवान् / च-पुन: / य:-बुद्धिविषयीभूतो भगवान् / नित्यज्ञानचरित्रदर्शनसुखम्-दर्शनज्ञान
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy