________________ 234 ] शास्त्रवार्तासमुच्चयस्य [ नवमः तथाचाहुरुपाध्यायाः (कल्पलता) इदं प्रकटनाटकं प्रकटमय वो दिक्पटाः / सभासु विदितं सतामिति किमत्र भूयः श्रमः॥ इतो जयति शासनं जगति चारु जैनेश्वरम् / सिताम्बरसमाश्रितं कृतधियां हितं शाश्वतम् // 13 // अन्वय:- दिक्पटा. ! अद्य इदम् , व: कपटनाटकम् , सभासु, सताम् . प्रकटम् , विदितम् . इति, अत्र, भूय:श्रमैः, किम् , इत:, जगति, कृतधियाम्, शाश्वतम् , हितम् , सिताम्बरसमाश्रितम् , चारु, जैनेश्वरम् , शासनम् , जयति / (कल्पलतावतारिका) दिक्पटाः!- दिगम्बरा: ! अद्य-अव्ययानामनेकार्थकत्वादि. दानोमित्यर्थः / इदम्-एतत् / कः युष्माकम् , दिगम्बराणामिति यावत् / कपटनाटकम् - छलमयं नृत्यम् , कपटप्रपश्चजातमिति यावत् / सभासु-परिषत्सु / सताम्-सज्जनान म् , विदुषामति यावत् / प्रकटम्-स्पष्टं यथास्यात्तथा / विदितम्-ज्ञातम् / इति-अस्माद्धेतोः। "इति हेतुप्रकरणप्रकारादिसमाप्तिषु” इत्यमरकोशात् / अत्र-एतद्विषये। भूयाश्रमः - समधिक प्रयासैः / किम् - निषेधार्थकमव्ययम् / "किं कुत्सायां विकल्पे च निषेधप्रश्नयोरपि” इति मेदिनी। इतः-अस्मिन् / सार्वविभक्तिकस्तस् / जगति--जोके / कृतधियाम्बुद्धिमताम् / शाश्वतम्-सार्वदिकम् / हितम्-कल्याणकरम् /