________________ स्तवकः ] कल्पलतावतारिका [ 233 देवदूध्यवस्त्रग्रहणश्रवणात् “सव्वे वि एगदूसेण णिग्गया जिणवरा च उठवीस" इत्याद्यागमप्रामाण्यात् / नचास्यान्यार्थत्वम् , आचाराद्यङ्गेषु तैस्तैः सूत्रैर्भगवत्येकवस्त्रग्रहणस्य श्रामण्यप्रतिपत्तिसमये प्रतिपादितत्वात् / न चैवं तदा सर्ववस्त्रपरित्यागावेदकः कश्चितागमः श्रूयते / योऽपि. "वोसट्टचत्तदेहो विहरइ गामाणुगामं तु" इत्यागमः, सोऽपि न श्रामण्यप्रतिपत्तिपमयभाविभगवन्नग्नत्वावेदकः किन्तु तदुत्तरकाल रागादिदोषविप्रमुक्तत्वमेव भगवत्यावेदयतीति / यस्त्विदानी प्रामाण्यानुपपत्त्याद्युद्भाक्यन् आचारागादिसद्भावमेव न स्वीकुरुते सोऽतिबाह्यः, स्वक्लुप्रशास्त्रमूलप्रवृत्तावन्धपरम्पराशङ्काया दुर्निवारत्वात् “जो भणइ नत्थि धम्मो” इत्यादिना महाप्रायश्चित्तोपदेशात् , तस्यासम्भाष्यत्वाच्च / एवञ्च तद्विनेया अपि तल्लिङ्गानुकारिण एवोचिताः” इत्यपि निरन्तम् , “यादृशं गुरुलिङ्ग तादृशमेव शिष्यलिङ्गादिकम्" इति वदतां पिच्छिकादिपरिग्रहरयान्याय्यत्वात, भगवता तदपरिग्रहात् , “गुरुकृतमेव कर्माचरणीयम्" इति व्यामोहवतां छद्मस्थावस्थायां भगवतोपदेशशिष्यदीक्षागुरुवचनाद्यनुपग्रहाद् दिग्वाससामपि तदनुपग्रहापत्त्या म्वतीर्थोच्छेदापत्तेः, तस्माच्चतुरातुरेण यथा वैद्योपदिष्टमेव क्रियते न तु तत्कृतमनुक्रियते व्याध्यनुच्छेदप्रसङ्गात् तथा भव्येनापि धर्माधिकारिणा भगवदुक्तमार्गो यथाशक्त्याचरणीयो न तु तच्चरितमाचरणीयम्, चक्रवर्तिभोजनलुब्धविप्रवद् विपरीतप्रयोजनप्रसङ्गादिति विभावनोयम् / .' इत्थञ्च " न सितपटा महाव्रतपरिणामवन्त:" इत्याद्यनुमाने हेत्वसिद्धि: मूर्छाभावेन परिग्रहयोगित्वाभावात् "मुच्छापरिग्गहो वुत्तो” इति भगवद्वचनान , वस्त्रादियोगित्वस्य श्रेण्यारूढे व्यभिचारित्वादिति स्मरणीयम् /