________________ 232 ] शाखवार्तासमुच्चयस्य [ नवमः न च शरीरेऽप्यप्रतिबद्धानां विदितवेद्यानां साधूनां वस्त्रादिषु "ममेदम्" इत्यभिनिवेशः / तथा वोक्तं वाचकमुख्येन यद्वत्तुरङ्गः सत्स्वप्यारम्भविभूषणेष्वनभिषक्तः / तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः // 1 // इति / परेणाप्येतदवश्यमभ्युपेयम् , अन्यथा शुक्लध्यानाग्निना कर्मेन्धनं भस्मसात् कुर्वत: परित्यक्ताशेषसङ्गस्य केनचित् तदुपसर्गकरणबुद्धथा भक्त्या वा वस्त्रादिनावृतशरीरस्य परद्रव्यरतिप्रतिबन्धात् स्वात्ममात्रप्रतिवन्धो न स्यात् / / / यदपि कथं वा न तस्करादिभ्यो वस्त्रादेः संगोपनानुसन्धानेन संरक्षणानुबन्धिरौद्रध्यानावकाशः ? इत्युक्तम् , तदपि न समीचीनम् जल-ज्वलन-मलिम्लुचश्वापदा हि विषकण्टकादिभ्यःसंरक्षणानुबन्धस्य शरीरेऽपि समानत्वात् धर्मनिर्वाहार्थं शरीरसंरक्षणानुबन्ध: प्रशस्त इति चेत् इदमन्यत्रापि सुवचम् / यदपि कथं चैवमाचेलक्यपरीषह विजयः कृत: स्यात् ? न हि सचेलकत्वमचेलकत्वञ्च न विरुद्धम् इत्युक्तम् तदपि तुच्छम् यथाहि तीव्रक्षुद्वेदनोदयेऽप्येषणादिदोषदुष्टमाहारमगृहृतस्तहोषरहितमाहारमु . पलभ्य विधिना क्षुद्वेदनां कुर्वतः क्षुत्परीषह विजयो न तु सर्वथाऽऽहाराग्रहणेन निरुपमधृतिसंहननानां जिनानामपि तदजेतृत्वप्रसङ्गात् , तथा शीतादिवेदनाभिभूतेनापि दोषदुष्टोपधित्यागेन दोषरहितोपधिपरिभोगेन च तत्प्रतीकारे आचेलक्यपरीषहविजयोपपत्तेर्न तु सर्वथा तत्परित्यागेन / न च जिनेन्द्रजिनकल्पिकादीनामपि सर्वथाऽचेलकत्वं सिद्धमस्ति, जिनकल्पकादीनां सर्वदैव जघन्यतोऽप्युपधिद्वयस्य सद्भावात् जिनेन्द्राणामपि प्रव्रज्याप्रतिपत्तिसमये