SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ स्तबकः ]. कल्पलतावतारिका [231 * जंपि बत्थं च पायं वा कंबल पायपुंछणं / तं पि संजमलजला धारति परिहरति अ॥ एवञ्चादग्धदहनन्यायेन यावदप्राप्त तावद् विधेयम्, इति वनधारणस्य लोकत एव प्राप्तत्वात् होकुत्सापरीषहनिमित्तं तद्ग्रहणं नियम्यते, तत्र च निमित्तत्रयमपि जिनकल्पायोग्यानां निरतिशयानामधिकारिणामावश्यकम् / अथ ज्ञानादिपुष्टालम्बनेनादुष्टाहारग्रहणे न दोषः, वस्त्रादेस्तु मलादिदिग्धस्य यूकादिसंमूर्च्छनानेकसत्त्वहेतुतया तद्ग्रहणे तव्यापत्तेरवश्यं भावात् तद्ग्रहणमपौष्टालम्बनिकत्वाद् न न्याय्यमिति चेत् न पाहारग्रहणेऽज्यस्य दोषस्य समानत्वात् संभवन्त्येव यागन्तु काः संमूर्च्छनजाश्चानेकप्रकारास्तत्र जन्तवः, तत्परिभोगे चावश्य भावी तेषां विनाशः, मुक्तस्य च कोष्ठगतस्य संसक्तिमत्त्वात् तदुत्सर्गेऽनेककम्यादिव्यापत्तिरवश्यंभाविनीति / ___ यदपि च कथं द्रव्यतः क्षेत्रतः कालतो भावतो वा कृतपरिग्रहप्रत्याख्यानस्य वस्रोपादाने न पश्चममहाव्रतभङ्गः ? इत्युक्तम् , सदपि मूर्छापरित्यागे भावतः परिग्रहप्रत्याख्यानोपपत्तावपि द्रव्यत: परिग्रहप्रत्याख्यानभङ्गाभिप्रायेणावगन्तव्यम् / . . यदपि च "कथं चैवं परद्रव्यरतिसाम्राज्ये स्वात्मप्रतिबन्धमात्रविश्रान्तश्रामण्यसमृद्धिः ?" इत्युक्तम् तदप्ययुक्तम् परद्रव्यसनिधानमात्ररूपाया रतेर्मुक्तावप्यनुच्छेदात् अभिष्वङ्गरूपाया रतेस्तु धर्मोपकरणेऽभावात् अभिष्वङ्गविषयस्य सतः शरीरादेरप्यधर्मोपकरणत्वात्। * यदपि वस्त्रं च पात्रं वा कम्बलं पादप्रोच्छनम / ... तदपि संयमलज्जार्थं धारयन्ति परिहरन्ति च ॥इति।।
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy