________________ 230] शास्त्रनार्तासमुच्चयस्य [ नवमः सम्पादकतया भवद्भिः पलमिव मन:कालुष्यजनकतया कामिन्यायस्माभिरपि त्याज्यमिति हृदयम् / दृष्टान्तालकारः / .. (कल्पलता) व्याधयोऽरसभुवो विषवल्ल्योऽभूमिका अशनयोऽगगनोत्थाः / मूर्तिमत्य इव मारणविद्याः किं न ता निगदिताः श्रुतवृद्धः॥१२॥ अन्वय:- अरसभुवः, व्याधयः, अभूमिकाः, विषवल्ल्यः, अगगनोत्थाः, अशनयः, ताः, श्रुतवृद्धः, मूर्तिमत्यः, मारणविद्याः, इव, न, निगदिताः, किम् / (कल्पलतावतारिका) . ___ अरसभुवः-अमधुरादिरसजनिताः। व्याधयः-रोगाः, तद्रूपा इत्यर्थः / अभूमिका:-अभूम्युत्पन्नाः / विषवल्ल्य:-गरलवल्लरीरूपाः / अगगनोत्था:-अनाकाशोत्पतिताः / अशनयः वज्वरूपाः / ता:-बुद्धिविषयीभूताः कामिन्यः / श्रुतवृद्धैः-शास्त्रकारप्रवरैः / मूर्तिमत्य:शरीरधारिण्यः / मारणविद्या:-तदाख्यविद्याः / इव-यथा / न-नहि। निगदिता:-प्रतिपादिताः / किम्-प्रश्नार्थकमव्ययम् / अपि तु निगदिता एवेति तास्त्याज्या: सर्वैरिति भावः / उपमाधिकारूढवैशिष्टय. रूपकालङ्कारौ। ___तस्माद् विहिताहारवत् विहितस्योपकरणस्यापि दुनिहतिशुभध्यानोत्पत्तिहेतुत्वाद् युक्तं यतीनां तत्परिशीलनम् / विधिश्वात्र * "तिहिं ठाणेहिं वत्थं धरेज्जा, हिरिवत्तियं दुगंछावत्तियं परीसहवत्तिय तथा• त्रिभिः स्थानैर्वस्त्र धारयेत् , हीप्रत्ययम् जुगुप्साप्रत्ययम् परीषह प्रत्ययम् /