________________ स्तवकः ] कल्पलतावतारिका [ 226 भावनम्-भावनाजनकम् / भवद्भिः कामिनी विरहसंभवदुर्ध्याननिवारणार्थ कामिनीसेवनस्यावश्यकत्वेऽपि मांसभक्षणस्य दुर्भावनाजनकतया नास्माभिस्तत्सेवनमिति / चेत्-यदि / ततः-तरमात् / इहअस्मिन् , कामिनीसंसेवने / अपि-खलु / समानम्-तुल्यम् / कामि. नीसेवनस्यापि व्यामोहादिजनकतयाऽस्माभिस्त्याज्यत्व मिति भावः / कामिनीसेवनस्य व्यामोहजनकत्वमुपपादयत- सङ्गमङ्गेत्यादिना(कल्पलता) सङ्गमङ्ग ! समवाप्य तरुण्याः, कस्य नाम न मनः कलुषं स्यात् / , निर्मलान्यपि जलानि न किं स्युः, पङ्कसङ्करवशाद् मलिनानि // 11 // अन्वयः- अङ्ग ! तरुण्याः, सङ्गम् , समवाप्य, कस्य, नाम, मनः, कलुषम्, न, स्यात्, निर्मलानि, अपि, जलानि, पङ्कसङ्करवशात् , मलिनानि, न, स्युः, किम् / (कल्पलतावतारिका), अङ्ग!- आमन्त्रणार्थकमव्ययम् / तरुण्या:-लावण्यशालिन्या अङ्गनाया: / सङ्गम्-सम्पर्कम् / समवाप्य-समधगत्य / नामकोमलामन्त्रणे / कस्य-यस्य कस्य / मनः-हृदयम् / कलुषम्कालुष्यकरम्बितम् , व्यामोहापन्नमिति यावत् / न-नहि / स्यात्भवेत् / अपि तु सर्वस्यापीति भावः / दृष्टान्तेन समर्थयति निर्मलान्यपीत्यादि-निर्मलानि-स्वच्छानि / अपि-खलु / जलानिसलिलानि / पङ्कसङ्करवशात्– कर्दमसम्मिश्रणाधीनत्वात् / मलिनानि-मलीमसानि, कलुषाणीति यावत् / न-नहि / स्युः-भवेयुः / किम्-प्रश्नार्थकमव्ययम् / अपि तु भवन्त्येवेति भावः / तामसवृत्ति