________________ 228] शास्त्रवार्तासमुच्चयस्य [ नवमः एतत् , समम् / (कल्पलतावतारिका) एवम्-अनेन शीतादिभीतसम्बन्धवस्त्रादिसेवनादिप्रकारेण / कामिनीविरहसम्भवदुष्टध्यानसन्ततिम्-लल नाविप्रयोगजनितदुष्टध्यानपरम्पराम् / अपासितुम्-अपनेतुम् , दूरीकर्तुमिति यावत् / कमनीयाम्-मनोरमाम् / कामिनीम्-अङ्गनाम् / अपि-खलु / किम्-कथम् / न-नहि / स्वीकुरुध्वम्-अङ्गीकुरुध्वम् / इति एवं प्रकारेण, कथ्यते इति शेषः / एतत्-कामिनीसंसेवनापादनम् / समम्-तुल्यम् , श्वे. ताम्बरदिगम्बरयोरिति शेषः / तामेव तुल्यतामाह-अन्यथेत्यादि(कल्पलता) अन्यथा पलभुजो न कुतः स्युर्दिक्पटा उचितपिण्डभुजश्वेत् / प्रत्युत प्रकटतामसवृत्त वनं, तत इहापि समानम् // 10 // अन्वयः-अन्यथा, उचितपिण्डभुजाः, दिक्पटाः, पलभुजः, कुतः, न, स्युः, प्रत्युत, प्रकटतामसवृत्तेः, भावनम् , चेत् , ततः, इह, अपि, समानम् / (कल्पलतावतारिका) अन्यथा-कामिनीसंसेवनस्योभयत्र तुल्यत्वाभावे / उचितपिण्डभुजः-समुचितप्रासाशनशीलाः / दिक्पटा:-दिगम्बराः / पलभुजःमांसभक्षकाः / कुतः-कस्मात्कारणात् / न-न ह / स्युः-भवेयुः / इत्येवं श्वेताम्बरैर्दीयमानायामापत्तौ दिगम्बरैरित्थं समादधीरन् , समाधिप्रकारमाह-प्रत्युतेत्यादिना-प्रत्युत-विपरीतं यथास्यात्तथा / मांसभक्षणमिति शेषः / प्रकटतामसवृत्तेः-समुत्कटतमोगुणाजनितवृत्तेः /