________________ स्तबकः . कल्पलतावतारिका [ 227 दुःखेन त्युक्त योग्यः / तथा-तेन प्रकारेण / उपकरणम्-आचारसाधनं वस्त्रादि। दुस्त्यजमिति शेषः / धाष्टर्थम्-आहारस्य दुस्त्यजत्वं न तूपकरणस्येति वैयात्यम् / उभयत्र-स्थलद्वये / समोक्तिकम्समा तुल्या उक्ति: कथनं यस्य तत्तथा। उपकरणं सर्वथा दुस्त्यज. मित्यस्यास्माभिरपि निगदितुं शक्यत्वात् / (कल्पलता) क्षुत्पीडितार्तध्यानस्य, यथा ह्यशनमौषधम् / तथा शीतादिभीताना-मपि वस्त्रादिसेवनम् // 8 // अन्वयः-क्षुत्पीडितार्तध्यानस्य, हि, यथा, अशनम , औषधम् , शीतादिभीतानाम् , वस्त्रादिसेवनम्, अपि, तथा / (कल्पलतावतारिका) . क्षुत्पीडितार्तध्यानस्य-क्षुत्पीडितानां बुभुक्षाव्यथितानां यदातध्यानन्तस्य तथा / हि-निश्चयेन / यथा-येन प्रकारेण / अशनम्भोजनम् / औषधम्-भेषजम् , भवतीतिशेषः / शीतादिभीतानाम्शीतादिवस्तुप्रयोज्यभयवताम् / वस्त्रादिसेवनम्-वस्त्रादिधारणम् / अपि-खलु / तथा-तेन प्रकारेण / औषधरूपमेवेति भावः / क्षुत्पीडितातध्याननिवारणार्थमशनमिव शीतादिभयापनयनाथ वनादिसेवनमप्यौषधरूपमिति वस्त्रादिधारणमावश्यकम् / (कल्पलता) कामिनीविरहसंभवदुष्टध्यानसन्ततिमपासितुमेवम् / कामिनीमपि किं न कमनीयां स्त्रीकुरुध्वमिति चेत्सममेतत् // 9 // अन्वयः-एवम् , कामिनीविरहसंभवदुष्टध्यानसन्ततिम् , अपासितुम् कमनीयाम् , कामिनीम् , अपि, किम् , न, स्वीकुरुध्नम् , इति, चेत् ,