________________ 226 ] शास्त्रवातासमुच्चयस्य [नबमः - (क्ल्प लता) शृणु गुणान् वहतां सुकृतस्पृशां, किमुपधेर्बत दुस्त्यजताऽपि न / अभिनिवेशमपास्य विमृश्यतामिदमुदीरितमुज्ज्वलभावतः // 6 // अन्वयः- शृणु, गुणान् , वहताम् , सुकृतस्पृशाम् , उपधेः, अपि, दुल्यजता, न, किम् , अभिनिवेशम् , अपास्य, उन्न्वलभावतः, इदम् , उदीरितम् , विमृश्यताम् / (कल्पलतावतारिका) शृणु-समाकर्णय / पुणान्-दयादाक्षिण्यपरोपकारित्वादीन् / वहताम्-संसेवमानानाम् , महात्मनामिति यावत् / उपधेः-वनाग्रुपकरणस्य / अपि-खलु / दुस्त्यजता-दुःखेन त्यक्तु योग्यता / न-नहि / किम्-प्रश्नार्थकमव्ययम्, अपि तु दुस्त्यजतेतिभावः / अभिनिवेशनम्-दुराग्रहम् / पक्षपातमिति यावत् / अपास्य-अपनीय / उज्ज्वलभावतः-विशुद्धभावनातः / इदम्-प्रत्यक्षम् / उदीरितम्निगदितम् / मयेति शेषः / विमृश्यताम्-विचार्य्यताम् / (कल्पलता) दीर्घदेहस्थितेहेंतो-राहारो दुस्त्यजो यथा / तथोपकरणं धाष्टर्यमुभयत्र समोक्तिकम् // 7 // अन्वयः-दीर्घदेहस्थिते:, हेतोः, आहार:, यथा, दुल्यजः, तथा, उपकरणम् , धाष्र्टयम् , उभयत्र, समोतिकम् / (कल्पलतावतारिका) दीर्घदेहस्थिते-सुचिरकालपर्यन्तशरीरावस्थानात् / हेतो:कारणात् / आहारः-भोजनम् / यथा-येन प्रकारेण / दुस्त्यजः