________________ स्तवकः ] कल्पलतावतारिका [225 स्यैव प्रमत्तगुणस्थानप्रवृत्तिनिमित्तत्वात् / शश्वद्वस्त्रादिसन्निधानेन प्रमाद्रोदये शश्वदतिसन्निहितेन कायेनापि तदुदये तनुच्छेदप्रसङ्गात् / एतेन "शश्वत्परद्रव्यसन्निधाने तदर्शनात्मदर्शनप्रतिरोधः” इत्यपि प्रलपितमपास्तम् , कायेऽप्यस्य समानत्वात् / कायदर्शनं प्रतियोगिज्ञानीभूय ध्यायिनः स्व भिन्नत्वज्ञानोपकार्ये वेति चेत् वस्त्रादिदर्शनमपि किं न तथा अपेक्षाकारणानां प्रधानकारणायत्तत्वात् "जे जित्तिा य हेऊ भवस्स ते तित्तिया य मुक्खस्स" इतिवचनप्रामाण्यात् / (कल्पलता) अथ तनुर्महतामपि दुस्त्यजा, ननु तदर्थमपीह भुजिक्रिया / इति ततो महतां न पथक्षतिर्भवति यदलतः सकला स्थितिः // 5 // ... अन्वयः-अथ, महताम् , अपि, तनुः, दुस्त्यजा, ननु, तदर्थम् , अपि, इह, भुजिक्रिया, ततः, महताम् , पथक्षतिः, न, भवति, यद्बलतः, सकला, स्थितिः, इति / (कल्पलतावतारिका) : अथ-संशयार्थमानन्तर्य्यार्थकं वाऽव्ययम् , 'अथाथो संशये स्याता'मिति मेदिनी। महताम्-महात्मनाम् / अपि-खलु / तनु:मूर्तिः / दुस्त्यजा- दुःखेन त्यक्तु योग्या / ननु-सम्भावनार्थकमव्ययम् / तदर्थम्-शरीरसंरक्षणकृते / अपि-खलु / इह-आचारे / भुजिक्रिया-अभ्यवहारव्यापारः / ततः-भुजिक्रियातः / महताम्महात्मनाम् / पथक्षति:-मार्गोल्लङ्घनम्। न-नहि / भवति-जायते / यदलतः-यत्सामर्थ्यत: / सकला-समस्ता / स्थितिः-मर्यादा, सम्पद्यते, इति शेषः / इति-एवमुच्यते चेत् /