________________ 224 ] शास्त्रवार्तासमुच्चयस्य अथ क्रय-पितृमरणप्रतिग्रहादिजन्य स्वत्व धनवबादौ पायविशेषरूपं विक्रयादि बनाश्यमवश्यमभ्युपेयम् अन्यथा स्वपरविभागाभाने स्तेयाऽस्तेयादि व्यवस्थोत्सीदेत् , न च स्वमूविषयत्वमेव स्वत्वम् परकीयेऽपि स्वमूछोविषये दीयमाने प्रत्यवायाप्रसङ्गात् / न च क्रयाद्युपायविषयत्वम् , तत्क्रयादीनामिच्छाविशेषरूपतया क्रीतादौ तद्विषयत्वसम्भवेऽपि पितृमरणादेनिर्विषयत्वेन पैतृकादौ तदनुपपत्तेः, क्रयादेः स्वत्वगर्भवाच्च / न च शास्त्रानिषिद्धविनियोगोपाययोग्यत्वम्, यावदुपायव्यतिरेके विनियोगे प्रत्यवायस्तावदन्यतमत्वं वा तत् प्रत्यवायप्रतिपादकस्य शास्त्रस्य 'परस्वं नाददोत" इत्यादेः स्वत्वानवगमेऽप्रतीतेः / न च कचिद् विक्रयप्रागभावविशिष्टः क्रयविनाशः, कचिदानादिप्रागभावविशिष्टः प्रतिग्रहध्वं श्वेत्येवमनुगतं स्वत्वं वाच्यम्, अनुगतव्यवहारोच्छेदात् / अतिरिक्तधर्मेण तावदनुगमे चातिरिक्तस्वत्वपर्यायस्यैव वक्तुमुचितत्वात् / तथा च स्वनिरूपितस्वत्ववत्त्वेनैव वस्त्रादेः कनकादिवद् ग्रन्थत्वं व्यवतिष्ठत इति चेत् न, यतिप्रतिगृहीतवस्त्रादौ धर्म्यविनियोग्यतारूपस्यातृष्णामूलस्य स्वाश्रयभिन्नाभिन्नस्य स्वत्वपर्यायस्य सत्त्वेऽपि ग्रन्थव्यवहारनिबन्धनसृष्णामूलप्रतिग्रहादिजन्यस्वत्वपर्यायाभावात् / अत एव "स्वपरिभोग्यमिदं वस्त्रादि" इति यतीनां भाषा न तु स्वमेवेदम् इति / ये तु मूढाः संगिरन्ते-असहिष्णोराहारकालेऽपि प्रमादसद्भावात् न यथावदात्मभावना, वस्त्रादेन्तु सर्वदा सन्निधाने सर्वदा प्रमादो. दयाद् महदनिष्टम् , इति ते समयलेशम पि न ज्ञातवन्त:-प्रमत्त. गुणस्थानवर्तिनामपि शुभयोग प्रत्यात्मानारम्भत्वादिप्रतिपादनात् , विधिना भुञ्जानस्य प्रमादाभावात् , प्रमादोपलक्षिताध्यवसाय विशेष