________________ स्तवकः ] कल्पलतावतारिका [ 223 कमेवान्तीति किं तेनापचेयम् ? इति विशेषणासिद्धो हेतुः / द्वितीयेऽपि किं सम्यग्ज्ञानादितारतम्येनोपचीयमानं भावनैर्ग्रन्ध्यं विव. क्षितम् ? आहोस्विद् बाह्यवस्त्राद्यभावरूपम् ? आये तथाभूतसम्यग्ज्ञानादिविपक्षत्वेन वस्त्रादिग्रहणग्रहणम्या सिद्धेहेतोर्विशेष्यासिद्धता, द्वितीये वस्त्राद्यभावस्य गगाद्यपचयनिमित्ततासिद्धेहेंतोर्विशेषणासिद्धता / नच वस्त्राद्यभावो रागाद्यपचयनिमित्तत्वेन सिद्ध एवेति वाच्यम् / अतिशयितरागवद्भिः पारापतादिभिर्व्यभिचारात् / न च पुरुषत्वे सतीतिविशेषणीयम् वस्त्रविकलैरनाHदेशोत्पन्नैर्व्यभिचारात् / नचाऽऽर्यदेश त्पन्नपुरुषत्वे सतीति विशेषणाद् न दोषः, तथाभूतपाशुपतैर्व्यभिचारात्। न च जैनशासनप्रतिपत्तिमत्तथाभूतपुरुषत्वे सतीति विशेषणोपादानाद् न दोष इति वाच्यम् उन्मत्तदिगम्बरैर्व्यभिचारात् / नचानुन्मत्तत्वे सतीत्यपि विशेषणीयम् मिथ्यात्वोपेतद्रव्यालङ्गावलम्बिदिग्वाससा व्यभिचारात्। न च सम्यग्दर्शनादिसमन्वितपुरुषत्वेसतीति वनाभावो हेतु: विशेषणस्यैव तत्र समर्थत्वेनासमर्थविशेध्यत्वात्। किञ्च वस्त्रादिधर्मोपकरणाभावे यतियोग्याहारविरह इव विशिष्टश्रुतसंहननविकलानामेतत्कालभाविपुरुषाणां विशिष्टशरीरस्थितेरेवाभावाद् न सम्यग्दर्शनादिसमन्वितत्वविशेषणत्वोपपत्तिरिति विशेष्यसद्भाव एव विशेषणसद्भाव बाधते / एवञ्च "वनादिकं ग्रन्थः मू_हेतुत्वात् कनकादिवत्" इत्यनुमानमपि जाल्मानां प्रतिक्षिप्तम् प्रन्थत्वं यदि मूछोहेतुत्वम् तदा हेतोः साध्याविशेषात्, यदि च 'प्रन्थव्यवहारविषयत्वम् तदा व्यवहारस्य लौकिकस्योपादाने तृणादौ व्यभिचारात् अलौकिकस्य चोपादाने बाधात् , दृष्टान्तस्य साध्यवै