________________ 222 ] शास्त्रवार्तासमुच्चयस्य [ नवमः (कल्पलता) दिक्पटाः ! सितपटैः सह सिंहैारणा अपि रणाय न सज्जा / दर्शयन्तु वदनानि कथं ही तेन ते परिगलनिजलजाः // 4 // ___ अन्वयः-वारणा:, अपि, दिक्पटाः, सिंहे:, सितपटैः, सह, रणाय, सजाः, न, तेन, परिगलन्निजलज्जाः, ते, वदनानि, कथम् , दर्शयन्तु, हो / (कल्पलतावतारिका) वारणा:-परपक्षनिवारका, गजाः / अपि-सम्भावनायाम् / दिक्पटा:-दिगम्बराः / सिंहै:-पञ्चाननरूपैः। सितपटैः-श्वेताम्बरैः / सह-साकम् / रणाय-युद्धाय, तत्त्वनिर्णयात्मकवादायेति यावत् / सज्जा:--सन्नद्धाः, प्रस्तुता इति यावत् / न-नहि / भवितुं शक्नुवन्तीति शेष: / तेन-तेन हेतुना / परिगलनिजलज्जाः-निस्त्रपाः / ते-दिगम्बराः / वदनानि-मुखानि / कथम्-केन प्रकारेण / दर्शयन्तुप्रकाशयन्तु, श्वेताम्बरानन्यान् वेति शेषः। हीति विस्मयार्थक विषादार्थकं वाऽव्ययम्, विस्मयेन विषादेन वा ते स्ववदनानि कथं दर्शयन्त्विति भावः / "ही दुःखे हेतावाख्यातौ विषादे विस्मयेऽपि च" इति मेदिनी। अत एव माघकवेः शिशुपालवधाख्ये स्वकाध्ये “हत विधिलसितानां ही विचित्रो विपाकः” इति श्लोकपादे हीशब्दो विषादार्थको दृश्यत इति। तथाहि-यत्तावद्रागाद्यपचयनिमित्तनैन्थ्यविपक्षभूतत्वेन तदुपचयहेतुत्वं वस्त्रादेरुक्तम् , तत्र नैर्ग्रन्थ्यं सर्वतो देशतो वोपात्तम् / आये-अष्टविधकर्मसम्बन्धरूपग्रन्थात्यन्तिकाभावरूपस्य तस्य मुक्तेवेव सम्भवात् कथं तस्य रागाद्यपचयहेतुता ? नहि तदा रागादि.