________________ स्तक्कः ] कल्पलतावतारिका [ 221 निरूपितकारणतावच्छेदकत्वस्य ज्ञानदर्शनचारित्रत्वपर्याप्तत्वात् / अयं भावः - मोक्षरूपं कार्य प्रति न तणारणिमणिन्यायेन ज्ञानादीनां हेतुत्वम् , तन्त्रितयान्यतमस्य यस्य कस्यचिदेकस्याधिगमेऽपि मोक्षप्रसङ्गात् , किन्तु दण्डचक्रादिन्यायेनैव, यथा वा काव्यनिर्माणे शक्तिनिपुणताभ्यासैतत्समुदितम्यैव हेतुत्वमत एव “शक्तिनिपुणतालोकशास्त्रकाव्याद्यवेक्षणात् / काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे" इत्यत्र काव्यप्रकाशे मम्मटेन हेतुरित्येवोक्तं न तु हेतव इति / एव च प्रकृते ज्ञानदर्शनचारित्रान्यतमस्य चारित्रस्याभावे श्वेताम्बराणां मोक्षानुपपत्तिरिति भावस्तथाहि-रागाद्यपचयनिमित्तनैर्ग्रन्थ्यविपक्षभूतत्वेन तदुपचयहेतुवनादिग्रहणं विशिष्टशृङ्गारानुषक्ताङ्गनाङ्गसङ्गादिवत् कथ न मुक्तिप्रतिकूलम् ? कथश्च द्रव्यतः क्षेत्रत: कालतो भावतो वा कृतपरिग्रहप्रत्याख्यानस्य वस्रोपादाने न पश्चममहाव्रतभङ्गः / कथवैवं परद्रव्यरतिसाम्राज्ये स्वात्मप्रतिबन्धमात्रविश्रान्तश्रामण्यसमृद्धिः? कथश्च न तस्करादिभ्यो वमादेः संगोपनानुसन्धानेन संरक्षणानुबन्धिरौद्रध्यानावकाशः ? कथं चैवमाचेलक्यपरीषहविजयः कृतः स्यात् ? न हि सचेलकत्वमचेलकत्वं च न विरुद्धमिति। यदि च सचेतकत्वमप्याचेलक्यमूलगुणावगुण्ठितश्रामण्यं न विरुन्ध्यात् तदा कथं जिनेन्द्रजिनकल्पिकादयः परमश्रमण अचेला एव श्रुते प्रसिद्धाः ? असङ्गताथमेव हिते वस्त्रादिकं परित्यक्तवन्त: तस्मात्तद्विनेया अपि तल्लिङ्गानुकारिण एवोचिताः ततो न श्वेताम्बरा महाव्रतपरिणामवन्तः, तत्फत्तसाधका वा, वसपात्रादिपरिग्रहयोगित्वात् महारम्भगृहस्थव.. दिति / अत्रोपाध्यायाः