________________ 220] शाखवार्तासमुच्चयस्य [नवमः चेत् त्रयं शिवपथः श्लथ एव प्रेक्ष्यतेऽद्य भवतामभिलाषः / वाससा चरणहानिमुपेता न त्रयं सितपटा घटयन्ति // 2 // . ' अन्वयः-भत्र, केचन, दिगम्बरडिम्भाः, तर्ककर्कशम् , इदम् , निगदन्ति हन्त ! अतिमदान्धाः, दन्तिनः, इव, अङ्कशम , गुरुम् , अनादृतवन्तः, वाससा, चरणहानिम् . उपेत:, सितपटा: त्रयम् , न, घटयन्ति, चेत्, त्रयम् , शिवपथः अद्य भवताम् अभिलाषः इलथः, एव, प्रेक्ष्यते / (कल्पलतावतारिका) अत्र-मोक्ष विषयेऽस्मिन् / केचन-कतिपये। दिगम्बरडिम्भाःदिगम्बरबालका: / डिम्भत्वे नाप रणतबुद्धित्वं तेषां व्यज्यते / तर्ककर्कशम्-तकैः कर्कशं कठोर यथास्यात्तथा / इदम्-वक्ष्यमाणप्रकारम् / निगदन्ति-ब्रुवन्ति / प्रकारमेव तमाह हन्तेत्यादिना - हन्त ! खेदेऽव्ययम् / अतिमदान्धाः-नितान्तं मदोन्मत्ताः / दन्तिनः-मतअजाः / इव- यथा / अङ्कशम्-उन्मार्गनिवर्तकत्वादकुशरूपम् / गुरुम्-धर्मोपदेशकम् / अनादृतवन्तः-तिरस्कृतवन्तः / वाससावस्त्रेण, तद्ग्रहणेनेत्यर्थः / चरणहानिम्-चारित्रत्यागम् / उपेता:प्राप्ताः / सितपटाः-श्वेताम्बरत्वेन प्रसिद्धा: श्रमणसाधवः। त्रयम्ज्ञानदर्शनचारित्रात्मकरत्नत्रयम् / न-नहि घटयन्ति - पालयन्ति / चेत्-यदि त्रयम्-दर्शन दित्रितयम् / शिवपथः-मोक्षमार्गः / स्व'. क्रियते भवद्भिरितशेषः / अद्य-इदान म् / भवताम्-सितपटानाम् / अभिलाष:-मोक्षविषयकमनोरथः / श्लथः-शिथिल: / एव-खलु / प्रेक्ष्यते-अवलोक्यतेऽस्माभिरिति शेषः / मोक्षत्वावच्छिन्नंकायता.