________________ स्तवकः ] कल्पलतावतारिका [ 216 - एकस्या एव तदभिव्यक्तेोषाभावजन्यायाः, सुखस्य च तादृशस्य तावदरमवस्थानौचित्यात् / एतेन ‘अविद्यानिवृत्तौ विज्ञानसुखात्मकः केवल आत्मैवापवर्ग," इति वेदान्तिमतमपि निरस्तम् ज्ञानसुखात्मकब्रह्मणो नित्यत्वे मुक्तसंसारिणोरविशेषापातात , अविद्याया असत्त्वेन नित्यनिवृत्तत्वाच्चेति संक्षेपः / पातञ्जल स्तु योगपदाभिधेयां क्रियामेव मोक्षहेतुत्वेनोपयन्ति परमार्थभूतस्य चित्तस्यादर्शनेन साक्षिदर्शने निरोधातिरिक्तोपायाभादिति कथयन्ति तदपि न समीचीनम् सर्वज्ञस्य चित्तदर्शनार्थं समाधिव्यापारायोगात् , अन्यथा सर्वज्ञस्वभावपरित्यागादचेतनादविशेषापत्तेः। अथ निस्तरङ्गमहोदधिकल्पो ह्यात्मा, तत्तरङ्गकल्पाश्च महदादिपवनयोगतो वृत्तय इति तन्निराकरणेनैवात्मनः स्वरूपप्रतिष्ठेति चेन्न, आत्मन: प्राक् तदतत्स्वभावत्वयोरनुष्ठानवैयात् , विषयग्रहणपरिणामरूपाऽऽकारसंपृक्तज्ञानस्य मुक्तावप्यनपायाच्च, तस्मात् न चित्त. दर्शनार्थं योगिनां समाधौ व्यापार:, किन्तु चित्तपृथक्करणर्थमेव, तत्र च क्रियाया इव ज्ञानस्यापि हेतुबमव्याहतमेव, केवलाभोगपूर्वक एवं हि योगनिरोधव्यापार इति विभावनीयम् / इत्थश्च द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानञ्च भारत ! . योगश्चित्तनिरोधो हि ज्ञानं सम्यगवेक्षणम् // इति वशिष्ठोक्तमपि ज्ञानकर्मसमुच्चयानुरोध्येवेति मन्तव्यम् / अथ दिगम्बराक्षेपः(कल्पलता) अत्र केचन दिगम्बरडिम्भास्तककर्कशमिदं निगदन्ति / हन्त!दन्तिन इवातिमदान्धा, अङ्कशं गुरुमनाइतवन्तः // 1 //