________________ 218 ] शास्त्रवातासमुच्चयस्य . [ नवमः जर्जागराद्यप्रत्ययेऽप्युपादानानुमानोच्छेदात् , अन्वयिद्रव्याभावे बद्धमुक्तव्यवस्थानुपपत्तेरिति / ___“स्वातन्त्र्यं मुक्ति" रत्यपरेषां मतमपि न विचारसहम् , तद्यदि कर्मनिवृत्तिरेव तदा सिद्धान्तसिन्धावेव निमन्जनात् , यदि च तत् (स्वातन्त्र्यम् / तदाभिमानाधीनतया तम्य संसारविलसितत्वात् / "प्रकृतितद्विकारोपधान वलये पुरुषम्य स्वरूपेणावस्थानं मोक्षः" इति साडयमतमपि न निर्मलसंख्यासमुज्जृम्भितम् स्वरूपावस्थानस्य कूटस्याऽऽत्मम्वरूपम्याऽसाध्यत्वात् प्रकृत्यादिप्रक्रियायां प्रमाणभावाच्च "प्रकृतेमहाँस्तनोऽहङ्कारस्तस्माद्गणश्च षोडशकः तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि" इत्यादिप्रक्रियाया असर्वज्ञप्रणीतत्वाच्च / "अग्रिमचित्तानुत्पादे पूर्वचित्तनिवृत्तिर्मोक्षः" इत्यन्येषां मतमपि कुबासनाविलसितमेव, अग्रिमचित्तानुत्पादस्य प्रागभावरूपस्यासाध्य. स्वात्, चित्तनिवृत्तेरनुद्देश्यत्वाच्च। ____ "आत्महानं मुक्तिः” इति पापिष्ठमतमपि पिष्टमेन वीतराग. जन्मादर्शनन्यायेन नित्यतया सिद्धस्यात्मनः सर्वथा हातुमशक्यत्वात् / "नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः” इति तौतातिकमतमपि नातिचतुरस्रम् एकान्ततः सुखम्य नित्यत्वे संसारदशायामपि तदभिव्यक्तिप्रसङ्गात्, सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात , तज्ज्ञानस्याप्यभिव्यक्तिरूपस्य, नित्यत्वात् , “नित्यं विज्ञानमानन्द ब्रह्म" इति श्रुत्या ज्ञानसुखयोरभेदबोधनात् अनित्यज्ञानरूपतदभिव्यक्तर्दोषाभावसाध्याया उपगमे तस्या नाशनियमेन मुक्तस्य पुनराधृत्तिप्रसङ्गात्, तदभिव्यक्तिप्रवाहस्य व शरोरादिहेत्वपेक्षां विनाऽनुपपत्ते, उपपत्तो वा