________________ स्तनकः ] कल्पलतावतारिका [217 समीचीनम्, मनुजादिशरीरसत्त्वे शूकरादिशरीरोत्पादायोगात् , देवा. दीनां तु वैक्रियशरीगदिकर्मोदयमहिम्नैव नानाशरीरश्रवणोपपत्तेरिति / __"दुःखेनात्यन्तविमुक्तश्चरति" इतिश्रुतिस्वरसाद् दुःखात्यन्ताभाव एव मुक्ति', दुःखसाधनध्वंस एव च स्ववृत्तिदुःखस्यात्यन्ताभावपम्वन्धः, स च साध्य एव" इति नैयायिकैकदेशमतमपि न समीचीनम्, दुःखसाधनध्वंसस्य दुःखात्यन्ताभावसम्बन्धत्वे मानाभावात् / "दुःखध्वंसस्तोम एव मुक्तिः” इति केषाश्चित्तदेकदेशिनां मतमपि नो वार्तम् , स्तोमस्य कथमप्यसाध्यत्वात् / "आनन्दमयपरमात्मनि जीवात्मलयो मुक्तिः” इति त्रिदण्डि- . मतमपि न पेशलम्', एकादशेन्द्रियसूक्ष्ममात्रावस्थित पञ्चभूतात्मकलिङ्गशरीरापगमरूपलयस्यं नामान्तरेण नामकर्मक्षयरूपत्वादेव यदि चोपाधिशरीरनाशे औपाधिकजीवनाशो लय इत्युच्यते तदा तेन रूपेणाकाम्यत्वादपुरुषार्थत्वात् / "अनुपप्लवा चित्तसन्ततिर्मुक्तिः” इति बाद्धबुद्धिरपि न सूक्ष्मा सन्ततेरवस्तुत्वेनासाध्यत्वात् / न च सन्ततिपतितक्षणानामेव पूर्वोत्तरभावेन हेतुहेतुमद्भावात् तत्साध्यत्वम् , संसारानुच्छेदप्रसङ्गात् सर्वज्ञ ज्ञानचरमक्षणस्यापि मुन्नज्ञानप्रथमक्षणहेतुत्वेन तत्सन्ततिपतितत्वात् / अथ न हेतुफलभावमात्रादेकसन्ततिव्यवस्था, अपि तूपादानहेतुफलभावात , न च सर्वज्ञज्ञ नस्य चरमक्षण उपादानम्, आलम्बनप्रत्ययो हि स: समनन्तरप्रत्ययश्चोपादानमिति चेत् न तुल्यजातोयस्योपादानत्वे मुक्तचित्तसर्वज्ञज्ञानयोस्तु जातयल्यीतानपायात् , सर्वज्ञज्ञानचरमक्षणस्याऽऽद्यमुक्तचित्तानुपादानवे तस्यानुपादानस्यैवोत्पत्ते