________________ 216 ] शास्त्रवार्तासमुच्चयस्य [ नवमः .. अन्वयः-अत्र, अपि, अन्ये, वर्णयन्ति, मोक्षतत्त्वस्य, परः, सर्वशभाषितः, दर्शनादिकः, उपायः, विद्यते / . (अव०) अत्र-मोक्षाभाववादे / अपि-सम्भावनायाम् / अन्येपरे मोक्षवादिनो जैना इत्यर्थः। वर्णयन्ति-निरूपयन्ति / यत्-मोक्ष. तत्त्वस्य द्रव्यक्षेत्रकालभावभेदेन शुद्धात्मस्वरूपावस्थानरूपस्य / पर:श्रेष्ठः, उत्कृष्ट इति यावत् / सर्वज्ञभाषितः-वीतरागभणित: न तु पुनरसर्वज्ञभाषितोऽभाषितो वा / दशनादिका-दर्शन-ज्ञान-चरित्ररूपः / उपायः-प्राप्तिहेतुः / विद्यते-अस्तीति / __ अत्र श्लोके मोक्षतत्त्वस्य इति तत्त्वपदेनान्याभिमतमोक्षस्या भावादेव तदुपाय: शशश्रङ्गोपायतुल्य इति ध्वनितम् / तथाहिसमानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंस एव मोक्ष इति नैयायिकमतं न रमणीयम् अतीतदुःखवद् वर्तमानदुःखस्यापि स्वत एव नाशादपुरुषार्थत्वप्रसङ्गात् / न च हेतुविनाशार्थ पुरुषव्यापारः प्रायश्चित्तवदिति वाच्यम् तथा सति दुःखानुत्पादस्य दुःखसाधनध्वंसस्यैव वा प्रयोजनत्वप्रसङ्गात् / न च चरमदुःखध्वंसेऽन्वयव्यतिरेकाभ्यां तत्त्वज्ञानस्य प्रतियोगिवद् हेतुत्वम् प्रतियोगिनमुत्पाद्य तेन तदुत्पा. दनात् , पुरुषार्थसाधनतया दु:ख तत्साधनयोरपि प्रवृत्तिदर्शनादिति वाच्यम्, चरमत्वस्याऽऽर्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वात् , अन्त्यदुःखे उपान्त्यदुःखस्यैव हेतुत्वेन तस्य तत्त्वज्ञानेनोत्पादयितुमशक्यत्वात् , भोगेनैव कर्मणां नाशे नानाभवभोग्यकर्मणामेकभवे भोक्तुमशक्यत्वात , तत्कर्मभोगस्य चापूर्वकर्माजकत्वेनानिर्मोक्षापातात् , न च तत्त्वज्ञानबलार्जितेन कायव्यूहेन तत्तत्कर्मभोगाद् नानिर्मोक्ष इति