________________ स्तबकः ] कल्पलतावतारिका [ 215 वा-अथवा / उपायम्वीकारपक्ष इति यावत् , सदा-सर्वदा / सर्वदेहिनाम्-नि'खलजीवानाम् / किम्-कथम् / न-नहि, स मोक्षो भवतीति शेषः / एवञ्च मोक्षवत नदुपायस्यापि काचिकत्वकादाचित्कत्वयोन्तुल्यः पर्य्यनुयोग इत्यवधेयम् // // यद्यसौ मोक्षोपाय: कर्मादिपरिणत्यादिसापेक्षतर्हि कर्मादेरना. दित्वात्कर्मादिपरिणत्यादि कि कादाचित्कम् ? अनादेः कर्मादेः स्वपरिणत्यादावन्यापेक्षाभावात् नचाधिकृतस्यैव कर्मणो विचित्र. स्वभावत्वात् तत्परिणत्यादिकं कादाचित्कमिति वाच्यम् कर्मण उत्कृष्टाद्यायाः ( ग्रन्थ्य राप्त्यवच्छिन्नाया अपकर्षवत्याश्च / स्थितेर्बहुवार निश्चयेन जातत्वात् / तथाचापकृष्टस्थितिकास्विभावत: कर्मणो मोक्षोपायजननपरिणतिशालित्वेऽभव्यादीनामपि तल्लाभप्रसङ्गः, तेषामपि तीर्थकरादिविभूतिं दृष्ट्वा ग्रन्थ्यवाप्तौ श्रुतसामयिकलाभश्रवणात् / एवं दर्शनादेः स्वभावजनितत्वेन मोक्षः पुरुषप्रकृतिसाध्यो न स्यादिति पर प्रत्युक्तं तदर्थानुष्ठानवैययं स्वयमप्यनिवारितम् / अपि च प्रथम निर्गुणस्यैव सतो गुणावाप्तावनेऽपि किं गुणापेक्षया ? अपि च सर्वमुक्तिसिद्धान्तो नास्ति जैनानाम् , तदभावे चायोग्यत्वशङ्या कथं मोक्षोपाये प्रेक्षावतां निराकुलप्रवृत्त्युपपत्तिः / न च शमदमभोगान. भिषङ्गा दना मुमुक्षुचिह्न तच्छङ्कानिवृत्तिः शमादिमत्त्वनिश्चयानन्तर प्रवृत्तिः प्रवृत्त्युत्तरं च शमादिसम्पत्तिरित्यन्योन्याश्रयात् // अत्र समाधानवातामाह सूरिराज:(शास्त्रवार्ता) अत्रापि वर्णयन्त्यन्ये, विद्यते दर्शनादिकः / उपायो मोक्षतत्त्वस्य, परः सर्वज्ञभाषितः //