________________ 214 ] शास्त्रवार्तासमुच्चयस्य ... [ नवमः पारमेश्वरम्-परमेश्वरसम्बन्धि / शासनम्-साम्राज्यम् / जयतिविजयते / परमेश्वरसम्बन्धिशासनस्य विजये हेतुतया पादत्रयार्थस्याभिधानात् काव्यलिङ्गमलङ्कारः, "वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा, पुरारे न कापि क्वचिदपि भवन्तं प्रणतवान् / नमन्मुक्त: सम्प्रत्यहमतनुरग्रेऽप्यनतिमानितीश ? क्षन्तव्यं तदिदमपराधद्वयमपि" इत्यादावपराधद्वये जन्म द्वयाधिकरणकनमनभावद्वयस्य हेतुतयाऽभिधानात् काव्यलिङ्गमिव / अन्त्यानुप्रासश्च शब्दालङ्कारोऽवसेय: // 3 // ___ननु वेदान्तिमतेऽद्वैते मोक्षार्थानुष्ठानवैयर्थ्यं दोषतया समुपस्थापितम्, मोक्ष एव चोपायाभावान्नास्तीति वेदान्तिमतमदुष्ट मति केषाश्चिद्वार्तान्तरमाह शास्त्रवार्तासमुच्चयकार:( शास्त्रवार्ता.) अन्ये पुनर्वदन्त्येवं, मोक्ष एव न विद्यते / उपायाभावतः किं वा, न सदा सर्वदेहिनाम् // अन्वयः- अन्ये, पुन:, एवम् , वदन्ति, मोक्षः, एव, न, विद्यते, उपायाभावतः वा, सर्वदेहिनाम् , किम् , न // (अव०) अन्ये-परे नास्तिकप्राया इत्यर्थः / पुनः-तु। एवम्वक्ष्यमाणप्रकारेण / वदन्ति-निगदन्ति / तमेव प्रकारमाह “मोक्ष एव न विद्यते” इति / मोक्षः-मुक्ति: / एव - अवधारणार्थकम् / न-नहि। विद्यते-अस्ति / एवञ्च न तदर्थानुष्ठानवैययं वेदान्तिनामिति भावः / मोक्षाभावे कारणमाह उपायाभावत इत्यादि / उपायाभावतः-मोक्षप्राप्तिहेत्वभावात् / नित्यावाप्तत्वेऽपि तदभिव्यक्तिकारणाभावात् /