________________ स्तवकः ] कल्पलतावतारिका [ 213 विनाशमभिगच्छतीति यावत् / अस्य-तस्य / “इदम् शब्दस्यात्र लच्छब्दार्थकत्वात्" अन्यथा “यत्तदोर्नित्यसम्बन्धः” इति नियमात् साकांक्षता स्यादिति भावः / शह्येश्वरप्रभोः-श्रीशङ्गेश्वरपार्श्वनाथभग. वत: / चरणपङ्कजे-पादपद्मे। कस्य-कीदृशम्य / धन्यस्य-भाग्यशालिनो जनम्य / स्वतः-स्वयमेव / स्तवप्रणवता-स्तवनतत्परता / न-नहि / भवति-जायते / अपि तु सर्वस्यापि धन्यस्य भवत्येवेति भावः / अत्र "अपायरात्रिश्चरः" इत्यशे रूपकमलङ्कारः, प्रकाशितवैधय॑तयोपस्थितयोरुपमानोपमेययोः सादृश्यातिशयमहिम्नाऽभेदारोपस्यैव रूपकालङ्कारत्वात् / “चरणपङ्कजे" इत्यंशे तूपमैव नतु रूपकम् , स्तवप्रवणताया रूपकाननुकूलत्वात् / एवञ्च संसृष्टिरलकारस्तयोनिरपेक्षभावेनात्र समावेशात् / (कल्पलता) हेतुयुक्तिविलसत्सुवासनं, निर्मितोरुकुनयव्यपासनम् / भतभाविभवदर्थभासनं, शासनं जयति पारमेश्वरम् // 3 // अन्वयः-हेतुयुक्तिविलसत्सुवासनम् , निर्मितोरुकुनयव्यपासनम् , भूतभाविभवदर्थभासनम् , पारमेश्वरम् , शासनम् , जयति / . (कल्पलतावतारिका) हेतुयुक्तिविलसत्सुवासनम्-हेतुयुक्तिभ्यां विशेषेण लसत् शोभमानं सुवासन सुवासः सौगन्ध्यविशेष इति यावत् यम्य तत्तथा / निर्मितोरुकुनयव्यपासनम्-निर्मितं विहितमुरूणां महतां कुनयानां दुर्नयानां व्यपासनं विशेषेण निरासनं येन तत्तथा / भूतभाविभबदमासनम्-प्रतीतानागनवर्तमानकालिकपदार्थप्रकाशनसमर्थम् /