________________ 212] शास्त्रवार्तासमुच्चयस्य [ नवमः शब्दोऽपि तादृशः" इत्यभियुक्तवचनादिवशब्दस्याप्युत्प्रेक्षावाचकत्वात् ताशपाटलिमा न भवति किन्तु "मुक्तिलक्ष्मीहृदयानुरागः" इत्यपहृत्यलङ्कार उत्प्रेक्षालङ्कारेण व्यज्यते इति विवक्षितान्यपरवाच्यानुस्वानाभसंलक्ष्यक्रमार्थशक्त्युद्भवस्य ध्वनेरलङ्कारेणालङ्कारव्यङ्गयात्मकः प्रकारोऽवसेयः / अपह्नतेरस्य व्यङ्ग यस्यालङ्कारत्वञ्च ब्राह्मणश्रमणन्यायेन समर्थनीयम् / 'निर्वृतिश्रिया' इत्यनेन मोक्षसिद्धिः स्तवकस्यास्य विषयोऽपि सूचितोऽवसेयः। (कल्पलता) अपि स्वपिति विद्विषां ततिरपायरात्रिञ्चरः, प्रणश्यति यदाख्यया पठितसिद्धया विद्यया / स्तवप्रवणता स्वतः सततमस्य शद्धेश्वर प्रभोश्वरपङ्कजे भवति कस्य धन्यस्य न // 2 // अन्वयः- यदाख्यया, पठितसिद्धया, विद्यया, विद्विषाम् , ततिः, अपि, स्वपिति, अपायरात्रिञ्चरः, प्रणश्यति, अस्य, शङ्केश्वरप्रभोः, चरणपङ्कजे, कस्य, धन्यस्य, स्वतः, स्तवप्रवणता, न, भवति / (कल्पलतावतारिका) ___ यदाख्यया-यदीयाऽऽहया यन्नाम्नेति यावत् / पठितसिद्धयापठितोच्चारिताऽपि सिद्धा सिद्धिप्रदा, पठितसिद्धा तया तथा। विद्ययाविद्यारूपया। विद्विषाम्-शत्रूणाम् / ततिः-समुदाय: / अपि-सम्भावनायाम् / स्वपिति-शेते / यन्नामोच्चारप्रभावत: शत्रवो विद्वेषभावनाविरहिताः शान्तिमवलम्बमाना भवन्तीति यावत् / अपायरात्रिश्चर:-अपायो विघ्न एव रात्रिञ्चरो राक्षसस्तथा / प्रणश्यति-प्रकर्षण