________________ स्तवकः ] कल्पलतावतारिका [211 * नवमः स्तवकः - तत्रादौ मङ्गलार्थ श्लोकत्रयं निर्दिशन्त्युपाध्याया:(कल्पलता) प्रणतान् प्रति निर्वृतिश्रिया, स्वहृदो राग इव स्फुटीकृतः / त्रिशलातनयस्य सम्पदे, पदयोः पाटलिमा नखत्विषाम् // 1 // अन्वयः-प्रणतान् , प्रति, निर्वृतिश्रिया, स्फुटीकृतः, स्वहहः, रागः, इव, त्रिशलासनयस्य, पदयोः, नखत्विषाम् , पाटलिमा, सम्पदे, (भूयात् ) / (कल्पलतावतारिका) प्रणतान्-प्रकर्षेण कृतनमस्कारान् , भक्तजनान्। त्रिशलातनयचरणयोरित्यर्थाद्विज्ञेयम् / प्रति-लक्ष्यीकृत्य / निवृतिश्रिया-मुक्तिलक्ष्म्या / स्फुटीकृतः-प्रकटीकृतः / स्वहृदः-स्वहृदयस्य / राग:अनुरागः / इव-उत्प्रेक्षायाम् / त्रिशलातनयस्य-चरमतीर्थकृतो भगवतो महावीरस्य / पदयोः-चरणयोः, पादपद्मयोरिति यावत् / नखत्विषाम्-नखकान्तीनाम् / पाटलिमा-लोहितिमा,रक्तिमेति यावत् / सम्पदे-सद्भाग्यसम्पत्तये / भूयादितिशेषः / त्रिशलातनयचरणप्रणतान् जनान् प्रति मुक्तिलक्ष्म्याः पूर्णानुरागो भवतीति भावः / अत्र भगवञ्चरणकमलनखकान्तिपाटलिमनि मुक्तिलक्ष्मीहृदयानुरागतादात्म्यसम्भावनादुत्प्रेक्षालङ्कारः / अन्यधर्मसम्बन्धनिमित्तमन्यस्यान्यतादात्म्यसम्भावनस्यैव तत्त्वात् / इव शब्दस्यात्र सम्भावनावाचकत्वात् / नचे. वशब्दस्य यथादिशब्दवदुपमावाचकत्वात्कथमुत्प्रेक्षेति वाच्यम् “मन्ये शके ध्रवं प्रायो नूनमित्येवमादिभिः / उत्प्रेक्षा व्यज्यते शब्दैरिव.