SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ स्तक्कः ] कल्पलतावतारिका [ 207 श्रवणमननादिना मोहमत्ता भवन्तीति भावः / तेन तेन हेतुना / सुधिया-विदुषा जनेन, आत्मकल्याणार्थिनेति यावत् / जैनागमएव-महत्प्रणीताऽऽगमरूपः / गीर्वाणद्रमः-कल्पवृक्षः / सेव्यताम्समाश्रीयताम् / कल्पवृक्षो यथा स्वसेवकायाभिमतं फलं प्रयच्छति तथा जैनागमोऽपि भविकसेवकाय मोक्षात्मकमभीष्टं फलं ददातीति भावः / रूपकमत्रालङ्कारः / जैनागम एव मुक्तिमार्गप्रदर्शको न वेदान्तादिदर्शन मिति प्रतीयमानस्यैवार्थस्य चमत्कारोत्कर्षनिबन्धनत्वाध्वनिकाव्यमिदमवसेयम् / (कल्पलता) न काकैश्चार्वाकः सुगततनयैर्नापि शशकैकैर्नाद्वैतज्ञैरपि च महिमा यस्य विदितः / मरालाः सेवन्ते तमिह समयं जैनयतयः, सरोजं स्याद्वादप्रकरमकरन्दं कृतधियः // 7 // अन्वयः- इर, यस्य, महिमा, काकैः चार्वाकैः, न, विदितः, शशकः, सुगततनयः, अपि, न, च, बकैः, भदैतज्ञैः, अपि, न, (विदितः) कृतधियः, मरालाः, जैनयतयः, स्याद्वादप्रकरमकरन्दम् , सरोजम् , तम् , समयम् , सेवन्ते / (कल्पलतावतारिका) - इह-अत्र समयविचारे / यस्य-बुद्धिविषयीभूतस्य स्याद्वादीयसमयस्य / महिमा-माहात्म्यम् / काकैः-काकरूपैः / चार्वाक:तत्त्वेन प्रसिद्ध हस्पतिशिष्यैर्नास्तिकैः / न-नहि / विदितः-अवगतः / शशकैः-शशरूपैः / सुगततनयैः-बौद्धैः / अपि-सम्भावनायाम् /
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy