________________ 206] शास्त्रवार्तासमुच्चयस्य [ अष्टमः न तु सदाद्यद्वैतमेवेति शम् / तथा चाहुरुपाध्यायाः(कल्पलता) चार्वाकीयमतावकेशिषु फलं, नैवास्ति बौद्धोक्तयः, कर्कन्धूपमितास्तु कण्टकशतै-रत्यन्तदुःखप्रदाः / उन्मादं दधते रसैः पुनरमी, वेदान्ततालद्रुमा, गीर्वाणद्रुम एव तेन सुधिया, जैनागमः सेव्यताम् // 6 // अन्वयः-चार्वाकीयमतावकेशिषु, फलम् , नैव, अस्ति, तु, बौद्धोकयः, कण्टकशतैः, अत्यन्तदुःखप्रदाः, कर्कन्धूपमिताः, पुनः, अमी, वेदान्ततालद्रुमाः, रसैः, उन्मादम् , दधते, तेन, सुधिया, जैनागमः, एव, गीर्वाणद्रुमः, सेव्यताम् / (कल्पलतावतारिका) ___ चार्वाकीयमतावकेशिषु-चार्वाकस्येमानि चार्वाकीयानि तानि घ मतानि सिद्धान्ता: चार्वाकीयमतानि, तानि एव अवकेशिनो बन्ध्य (फलरहित ) वृक्षास्तेषु तथा चार्वाकसम्बन्धि-भत (सिद्धान्त) रूप-बन्ध्य ( फलरहित ) वृक्षेषु / फलम्-मोक्षादिरूपं प्रयोजनम् / नैवं-न खलु / अस्ति-वर्तते / तु-पुनः / बौद्धोक्तयः-सौगतसिद्धान्ताः / कण्टकशतैः-अनन्ततीक्ष्णकण्टकैः। (करणैः) अत्यन्तदुःखप्रदः-अतीवदुःखदायिनः। (अत एव ) कर्कन्धूपमिता:-बदरीवृक्षतुल्याः / पुनः-किश्च : अमी-इमे / वेदान्ततालद्रुमाः-वेदान्तसिद्धान्तरूपतालतरवः / रसैः-स्वफलभवरसैः, तदास्वादैश्च / उन्मादम्-मदमत्तताम् , मोहाधिक्यश्च / दधते-धारयन्ति / यथा तालफलसमुद्भतरसास्वादेन जना उन्मत्ता भवन्ति तथा वेदान्तसिद्धान्त