________________ कल्पलतावतारिका [ 205 संसारप्रयोजक इति भावः / शास्त्रे-आगमे , अप्यर्थो गम्यतेऽत: शामविषयेऽपीत्यर्थः / भ्रान्तिः-भ्रमः / शास्त्रमपि भ्रमजनितमेक, मिथ्याज्ञानजनकमेव तवेति व्यज्यते / प्रवृत्ती-प्रवृत्तिविषये / एव-अप्यर्थकम् / प्रवृत्तिविषयेऽपि तव भ्रम एवेति भावः / एवश्व कथमस्य भ्रान्तस्य शास्त्रश्रवणाद् नित्यावाप्ते चैतन्येऽनसत्वभ्रमो न निवर्तते ? कथं वा विदितवेदान्तः स्वयं निवृत्तानवासस्वभ्रमः परमुपदेशेन प्रवर्तयन् प्रतारको न स्यात, अपि तु प्रतारक एव स्यात् / - अपि च स्वमतेऽपि परस्य श्रवणादिजन्यप्रतिबन्धकादृष्टनिधत्तिरूपनिर्दोषत्वमहिमा न शब्दात् शुद्धब्रह्मबोधे हेतुः, उत्पत्तौ प्रामा ण्यस्य स्वतस्त्वभङ्गापत्तेः / ज्ञानसामान्यसामग्रीजन्यत्वं हि तत् / न चोकवाक्यार्थप्रमाया निर्दोषत्वजन्ये युज्यत एतत् , श्रवणादेः प्रतिबन्धक निवर्तकत्वात् , प्रतिबन्धकाभावस्य च तुच्छतया हेतुत्वादेव गेहेमर्दिभिः परैरेतदोषपरिहारादिति स्वगृहतत्त्वमेव न प्रेक्षितं क्षतक्षामकुक्षिणा तपस्विना, तत: सम्यगुत्प्रेक्षितं. शाक्यसिंहविनेयेन यत् प्रबलदोषमाहात्म्यात् “खरविषाणम्" इत्यादिवाक्यादलीकस्याखण्ड स्य खरविषाणस्येव वेदान्तवाक्यात् परेषां कुवासनादोषमाहात्म्यादलीकस्याखण्डस्य ब्रह्मणो बोधः इति / एवञ्च सर्वस्य स्वरूपसत्तादिधर्मसङ्कीर्णस्यैव चोपलम्भात् व्यवहारस्य च प्रतियोगिप्रतिपत्तौ तथैवोदयात् सदसदात्मकमेव जगत् / तथाचोक्तं वृद्वैः . सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च / .. अन्यथा सर्वसत्त्वं स्यात् , स्वरूपस्याप्यसंभवः / /