________________ स्तवकः ] कल्पलतावतारिका [ 203 धेभ्यः, ज्ञानजन्यत्वाच / अस्तु त_निर्वचनीया, जन्यत्वात् , तदुक्तम्"जन्यत्वमेव जन्यस्य मायिकत्वसमर्पकम्" इति चेत् न, अनिर्वचनीयस्य ज्ञाननिवर्त्यत्वनियमाङ्गीकारेण तन्निवृत्तिपरम्पराप्रसङ्गात् / अथ सदद्वैतव्याकोपादस्त्येव सा, असत्त्वेऽपि तस्या उद्देश्यत्वज्ञानजन्यत्वादि कल्पयिष्यते इति चेत् , एवं सत्यविद्यापि कल्पयिष्यतेऽसत्येव कार्य्यजननीतिसिद्धान्तव्याकोपः / कल्प्यादर्शनसंशयस्तूभयत्र समानः / पञ्चमप्रकारत्वाश्रयणन्त्वत्यन्ताप्रसिद्धम् / / अथ नाज्ञानस्य निवृत्तिर्नामध्वंस:, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् , घटध्वंसो हि चूर्णाकारपरिणता मृदेव, नच चैतन्यस्य रूपान्तरमस्ति, तस्मान्नास्त्येवाज्ञानध्वंस: किन्त्वज्ञानस्य कल्पितत्वात् तदत्यन्ताभाव एव तन्निवृति: / किन्तर्हि तत्त्वज्ञानस्य साध्यमिति चेत्, नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण ? तदुक्तम् तत्त्वमस्यादिवाक्योत्थ-सम्यग्धीजन्ममात्रतः / अविद्या सहकार्येण, नासोदस्ति भविष्यति // स चायमधिष्ठानात्मक एव मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते, अत एव शुक्तिबोधे रजतध्वंसव्यवहारः, न तु शुक्तिबोधेन रजतध्वंस: सम्भवति, रजतात्यन्ताभावबोधात्मको बाधस्तु शुक्तिज्ञानात्मक एव भवतीति / कथं तर्हि सर्वदा सत इच्छा, तदर्थप्रयत्नविशेषो वा ? इति चेत् , अस्माकं (वेदान्तिनाम् ) परेषामिव मुक्तिभिन्ना न, किन्तु चिद्रूपैव नित्यावाप्तव च, इच्छाप्रयत्नविशेषौ तु कण्ठगतचामीकरन्यायेनानवाप्तत्वभ्रमात् , तन्निमित्तश्चाज्ञानमेव / न चैवं मुक्तेः पुरुषार्थत्वहानि:, तद्धि न पुरुषकृतिसाध्यत्वम् , विषभक्षणादेरपि तथात्वापत्तेः / नाप्यभिलषितत्वे सति कृति साध्वत्वं