________________ 202] शास्त्रवातासमुच्चयस्य . [ अष्टमः देशना, समभावप्रसिद्धये, निर्दिशा, तु, तत्त्वतः, न / ( अव० ) अन्ये-आईतदर्शनिनः / एवम्-अनेन प्रकारेण / . . व्याख्यानयन्ति-व्याख्यानं कुर्वन्ति / यत् , शास्त्रे-आगमे / श्रावक. प्रज्ञप्तिवेद इति यावत् / समभावप्रसिद्धये-प्रपञ्चस्याविद्याविलसितत्वमात्रप्रदर्शनेन स्वात्मन्येव प्रतिबन्धस्थैर्यात् शत्रुपुत्रादौ द्वेषरागादिभावविच्छेदात् परमचित्तप्रसादरूपसाम्यसिद्धयर्थम् / अद्वैतदेशना"आत्मैवेदं सर्वम् , ब्रह्मैवेदं सर्वम्" इत्यादिकाद्वैततत्त्वोपदेशना / निविष्टा-निवेशं नीता। तु-पुनः। तत्त्वतः-अद्वैतमेव तत्त्वमित्यभिप्रायेण / न-नहि / निविष्टेति शेषः / - अत एव द्वितीयगणधरवादप्रकरणे “पुरुष एवेदं सर्व ग्निम्" इत्यादिश्रुतीनामापातार्थदर्शनजनितो गणधरसंशयस्तासां श्रुतीनामा. त्मार्थवादत्वेन तदीयसमीचीनाशय वृद्धये प्रपञ्चसत्यतावेदकश्रुत्यन्तर. प्रकटीकरणेन स्वयमेव भगवता चरमतीर्थकृता निरस्त: / स्पष्टं चैततत्त्वं विशेषावश्यकादौ द्रष्टव्यम्। जैनानां पुनरेतद् व्याख्यानं न्यायेनापि न बाध्यते, घटादि सत्त्वग्राहिणां शास्त्रानुमानादीनां प्रामाण्योपपत्तेः, संसारमोक्षविभागस्य तात्त्विकत्वात , मोक्षार्थ प्रेक्षावतां यमनियमादिव्यापारोपपत्तेश्च / तथाहि-जैनोक्तविपरीतव्याख्याने संसारमोक्षयोर्वस्तुतोऽद्वैते सति यमनियमादेः सर्वानुष्ठानस्य वैयर्थ्यरूपमनिष्टं प्रसज्यते, संसारनिवृत्यर्थो मोक्षार्थो वा मुमुक्षूणां निखिलोऽपि व्यापारो भवति, सचाद्वैतवादे नोपपद्यते, संसारस्यानित्यत्वेन नित्यनिवृत्तत्वात् मोक्षस्यापि सञ्चिदान दरूपब्रह्मात्मकस्य नित्यत्वेन नित्यावाप्तत्वात् , अविद्यानिवृत्त्यर्थो मुमुक्षूणां यत्न इति चेन्न, यतो न तनिवृत्तिः सती नाप्यसती नापि सदसती द्वैतप्रसङ्गोद्देश्यत्वविरो