________________ स्तबकः ] कल्पलतावतारिका [ 201 ननु युक्तिसिद्ध एवार्थे सुसंप्रदायेन श्रुतिशक्तितात्पर्य निर्णीयते / अन्यत्र “यजमान: प्रस्तरः” इतिवदुपचार एव युक्तिश्च प्रपञ्चासत्य. तायामेवोपदर्शितदिशेत्यद्वैतश्रुतीनां प्रामाण्यमिति चेन्न-अनुभवस्या. द्वैतस्य बाधात् , तथाहि-अनुभूयन्ते तावदविगानेन घटादयो भावा मृदुघटादिरूपेण भेदाभेदात्मका अवग्रहाद्यात्मनोपयोगेन, तत्र च स्वयमेकमेव चैतन्यं प्रमाणफलरूपम् , एकामेव च पदशक्तिं पदार्थाशे ज्ञातामन्वयांशे चाज्ञातां स्वीकुर्वाण: कथमेकमर्थं द्विरुपमनुभवन्नपि प्रत्याचक्षीत ? यदि च त्रपां परित्यज्य "अभेदस्यैवालोचनम्" इति परोक्षतया भेदस्य मिथ्यात्वं ब्रूयात् तदा प्रत्यक्षं चक्षुर्व्यापारसमनन्तर. भाविवस्तुभेदमधिगच्छदेवोत्पद्यते यतो भेदो भावस्वभाव इति भावमधिगच्छता कथं नाधिगम्येत ? नच भेद: "इदमस्माद् व्यावृत्तम्" इति कल्पनाविषय एव, अभेदस्यैव "इदमनेन समानम्" इति कल्पनाविषयत्वात् भेदस्य विवक्तपदार्थस्वरूपस्य परासंमिश्रितत्वात्, स्वस्वरूपव्यवस्थितानां भावानां कल्पनाज्ञानमन्तरेण योजनाभावात् , अन्यथा व्यवहारानिर्वाहात् / तदुक्तम् - "अनलार्थ्यनलं पश्यन् न तिष्ठेत् नापि प्रतिष्ठेत्” इति / तदेवं व्यवस्थितमेतत्, प्रतीत्यनुरोधेन नाद्वैतमेव तत्त्वम् , किन्तु प्रपञ्चोऽपि ब्रह्मवत् परमार्थसन्नेवेति / एतद्वादविषयविभागवार्ताम ह(शास्त्रवार्ता०) * * अन्ये व्याख्यानयन्त्येवं, समभावप्रसिद्धये / / अद्वैतदेशनाशास्त्रे, निर्दिष्टा न तु तत्त्वतः॥८॥ अन्वयः-अन्ये, एवम् , व्याख्यानयन्ति, ( यत् ) शास्त्रे, अद्वैत