________________ 200] शास्त्रवार्तासमुच्चयस्य [अष्टमः तीवा "विद्ययाऽमृतमश्नुते" इति श्रुतौ विद्याऽविद्ययोरमृताप्ति-मृत्युतरणफलयोः स्फुटमेव भेद उक्तः सचाद्वैतेन विरुध्यते। .. नन्वत्राविद्यया श्रवणादिलक्षणया मृत्यु तीवोऽविद्यामेव निवर्त्य, विद्ययोपलक्षितममृतमश्नुते / स्वयं च जीर्य्यति यथा विर्ष विषान्तरं शमयति, स्वयं च शाम्यति, यथा वा कतकक्षोदादिरजो रजोऽन्तराणि विनाशयत् स्वयमपि विनष्टं भवति तथेति / नचासत्यान्न किश्चित्का य॑म्, मायायाः प्रीतेर्भयस्य रेखाङ्कादेश्च सत्यप्रतिपत्तेर्दर्शनादिति चेदत्रोच्यते-किमत्रोक्तार्थेन "तत्त्वमसि” इत्याद्युक्ताद्वैतबाधः, उत विद्याऽविद्यापदार्थाभ्यां ज्ञानकर्मभ्यामतिरिक्तमुक्तिसाधनत्वबोधात्तद्वा. ध: ? इति संशयात् “द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च" इत्याद्युक्तो भेदः सत्य उत प्रागुक्तोऽभेद इति संशयाच्च "परं चापरं च ब्रह्म यदोङ्कारः” इत्याद्युक्तं शब्दब्रह्माद्वैतं प्रागुक्तं निर्गुणब्रह्माद्वयं वा ? इत्यपि संशयाच्च। नच “परं च” इत्यादावुपासनार्थ सामानाधिकरण्यम् , निर्गुणब्रह्मण उपासितुमशक्यत्वात्, एतदालम्बने "ब्रह्मोपासितव्यम्” इति प्रतीकोपदेशात्, यथा देवताया. साक्षात् पूजाया असम्भवात् तल्लाञ्छने दारुण्यश्मनि वा पूजाविधानं तबुद्धचेति वाच्यम् “तत्त्वमसि' इत्यादावेव समुपासनाथं तद् भविष्यति जीवेश्वरयोरभेदश्रुतेरिति संशयाविगमात्। एवं “तेनेदं पूर्ण पुरुषेण सर्वम्” इति श्रुतेः सर्वस्य ब्रह्मात्मकत्वं वा “सर्वगन्धः स्वरस:" इत्यादिश्रुतेब्रह्मण: सर्वात्मकत्वं वा ? इत्याद्यूह्यम् , किश्चानाकलितनयानां न क्वापि निश्चायिका श्रुतिस्तत्र 2 प्रदेशे विरुद्धार्थाभिधानात् , नानासम्प्रदायाभिप्रायव्याकुलतयैकव्याख्यानाव्यवस्थितेश्च /