________________ स्तवकः ] कल्पलतावतारिका [ 166 अन्वयः-भत्र, भपि, अन्ये, एवम्, वदन्ति, भविद्या, सतः, पृथक , न, च, तत् , तन्मात्रम् , एष, इति, मेदाभासः, अनिबन्धनः / (अव०) अत्र-अस्मिन् अद्वैतपक्षे। अपि-खलु / अन्ये-अपरे, आईता इति यावत् / एवम्-वक्ष्यमाणप्रकारेण / वदन्ति-ब्रुवन्ति / तमेव प्रकारं दिशन्ति- अविद्ये-त्यादिना, अविद्या-प्राक्प्रतिपादितस्वरूपाऽज्ञानात्मिका / सतः-सद्रूपाद् ब्रह्मणः / पृथक्-अतिरिक्तम् , तत्त्वान्तरमिति यावत् / न-नहि / अस्तीतिशेषः, तत्त्वान्तरत्वस्वीकारे द्वैतापत्तेः / च-पुनः। तत्-सत् / तन्मात्रम्-सन्मात्रम् / एव-अवधारणार्थकम् / इति-अस्माद्धेतोः / भेदाभासः-भेदाध्यवसायः / अनिवन्धनः- न निबन्धनं कारणं यस्मिन् स तथा, जनकविषयाभावादकारण इत्यर्थः / तथाहि-सन्मात्राऽभिन्नाप्यविद्याऽविद्यमाननीलपीतादिप्रतिभासकारणमुच्यते / तत् प्रमाणान्तरेण नावगन्तुं शक्यते, प्रमेयव्यव. स्थायाः प्रमाणाधीनत्वात्, प्रमेयभिन्नमतिरिक्त प्रमाणं स्वीक्रियते चेत् प्रमाणप्रमेयद्वैविध्यव्यवस्थानात्, अद्वैततत्त्वं नोपपद्यते, प्रमाणानभ्युपगमेऽद्वैततत्त्वमप्रमाणकं स्यात् , तथाचोन्मत्तं विना को नाम वेदान्तिम श्रद्धामादधीत ? एवञ्च वेदान्तिमतं सर्वथाऽनुपपन्नमिति / ___ नन्वयमनुक्तोपालम्भः, अविद्यायाः पृथक्त्वस्य, प्रमाणप्रमेयादि. विभागेन व्यावहारिकभेदस्य च प्रागुक्तरीत्याऽभ्युपगमादेव, परमार्थतस्तु " तत्त्वमसि " इत्यादिनोक्तमखण्डमेव सदिति चेत्रोच्यतेविद्याऽविद्यादिभेदात् स्वाभ्युपगतप्रामाण्येन शास्त्रेणैवाद्वैततत्त्वस्य बाधात् / तथाहि-"विद्यां चाविद्यां च यस्तद्वेदोभयं सहाविद्यया मृत्यु