________________ 198] शाबवातासमुच्चयस्य . [ अष्टमः यास्यवश्यकत्वाज्ज्ञानिनामपि तदापातात् / ततः प्रायणकाले उत्पादित. देहान्तरविषयान्तिमप्रत्ययत्वं प्रारब्धत्वम् / न चेदेवम्-उत्क्रमणस्याव. श्यकत्वात् 'न तस्य प्राणाः उत्क्रामन्ति" इति श्रुतिसङ्कोच इति न शानिनो जन्मान्तरम् , किन्तु प्रारब्धक्षयेऽज्ञाननिवृत्तौ चिन्मात्रमेवाव. शिष्यते इति, तथा चोपसमहापुरुपध्यायाः(कल्पलता) अयं वेदान्तिनां सर्वः सम्प्रदायो निरूपितः। स्वैरं यत्राग्रहप्रस्ताः पतन्त्येते तपस्विनः // 4 // अन्वयः-अयम् , वेदान्तिनाम्, सर्वः, सम्प्रदायः, निरूपितः, एते, तपस्विनः, भाग्रहग्रस्ताः, यत्र, स्वैरम् , पतन्ति / (कल्पलतावतारिका) अयम्-अनन्तरोपदर्शितः / वेदान्तिनाम्-उपनिषत्कानाम् / सर्ग:-निखिलः / सम्प्रदाय:-गुरुपरम्परागतमतम् / निरूपित:निरूपणविषयीकृतः / एते-इमे / तपस्विनः-अज्ञानमूलतपस्यामाचरन्त:, दयनीया इत्यर्थः / आग्रहप्रस्ता:-आवेशनिविष्टचेतसः / अग्रहग्रस्ताः इतिच्छेदे अज्ञानोपहता इत्यर्थो विधेयः / यत्र-बुद्धिविषयीभूते सम्प्रदाये / स्वैरम्-यथेच्छम् / पतन्ति-निपतन्ति / अन्धानां कूपपतनमिव तेषां तत्र पतनं ध्वन्यते / वेदान्तिमतनिराकरणवार्तामाह(शास्त्रवार्ता.) अत्राप्यन्ये वदन्त्येव-मविद्या न सतः पृथक् / तच तन्मात्रमेवेति, भेदाभासोऽनिबन्धनः // 4 //