________________ कल्पलतावतारिका [ 167 हुतभुजि जुहोति, प्रसंख्यानाभ्यासलब्धवैराग्यपरिपाकभग्नरागादिकपायमदिरामदं तु मनः पुरुषेण वशीक्रियते, सोऽयमस्य वैराग्यहेतुको मनोविजयः शम इति वशीकारसंज्ञ इति चाख्यायते, विजितं च मनस्तत्वविषयविनियोगयोग्यतां नीयते, सेयमस्य योग्यता दमः। यथा दान्तोऽयं वृषभयुवा हलशकटादिवहनयोग्यः कृत इति गम्यते / आदिग्रहणेन विषयतितिक्षा-तदुपरम-तत्त्वश्रद्धाः संगृह्यन्ते, अत एव श्रुतिः "तस्माच्छान्तो दान्त उपरतस्तितुक्षुः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत् सर्वमात्मनि पश्यति इति / अधिकारिणां श्रवणमनननिदिध्यासनादित आत्मज्ञानमुत्पद्यते, तदिदमात्मज्ञानमुत्पन्नमात्रमेवानन्तजन्मार्जितकर्मराशि विनाशयति "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इति श्रुतेः। तेन कर्मक्षयार्थं न कायव्यूहकल्पना “स एकधा भवति" "स त्रेधा" इत्यादिवाक्यानामुपासकविषयत्वात् / न च देहनाशप्रसङ्गः, तस्य प्रारब्धप्रतिबन्धात् , नचेदेवं चिरं यावद् न विमोक्षः, "अथ सम्पत्स्ये". इति श्रुत्या कर्मविपाकेन प्रारब्धनिवृत्तावपि तस्य ज्ञानानिवर्त्यत्वाभिधानात् , तस्यां चावस्थायां प्रारब्धफलं भुञ्जान: सकलसंसार बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधिनिषेधाधिकारशून्यः संसारमात्रात् सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन्मुक्त इत्युच्यते, अस्य च प्रारब्धतो जन्मान्तरमपि / अत एव सप्तजन्मविप्रत्वप्रदे कर्मणि प्रारब्धे उत्पन्नतत्त्वज्ञानस्य पुनर्देहान्तरम्, प्रारब्धस्य ज्ञानानावश्यकत्वादिति केचित् / ततश्च ज्ञानदेहारम्भकेष्वनेकजन्मप्रदेशेष्वनेकेषु सुकृतदुष्कृतेषु सत्स्वपि न जन्मान्तरमेतस्य सुवचम् , सति देहे देहान्तरायोगात् / तन्नाशानन्तरं तदुपगमे च " यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्" इति स्मृतेदेहान्तरविषयान्तिमप्रत्य