________________ स्तवकः / कल्पलतावतारिका [ 165 वेद्यत्वम् , घटादिवच्चक्षुर्ग्राह्यत्वेन तस्यापि प्रमाणवेद्यत्वात् ? न च तत्र स्वप्नवचक्षुर्पाद्यत्वम्, घटादावप्यनाश्वासात् / न च देहस्य प्रमाणवेद्यत्वमेव, अज्ञानविषयत्वेन कदाचिद् "अहं मनुष्यो न वा” इति सन्देहापत्तेः, किश्वास्य ब्रह्मण्यध्यस्तस्तत्वे घटादिवन्न केवलं साक्षिवे. द्यत्वम् , जीवाध्यस्तत्वे च सुखादिवदन्यापरोक्षत्वभङ्ग इति चेत्अत्रोच्यते-एक एवार्य जीवो देहत्वेन ब्रह्मण्यध्यस्तो न जीवे "अहं देहः” इत्यप्रतीतेः, तेनैव च रूपेण केवलसाक्षिवेद्यत्वम् , प्रमाणवृत्त्यनपेक्षत्वात् , देहत्वेन तु प्रमाणवेद्यत्वम् , एवमन्त:करणादिरपि तत्त्वादिना (अन्तःकरणत्वादिना) ब्रह्मण्यध्यस्तः, अहन्त्वादिना जीव इति सिद्धमज्ञानोपहितचैतन्यरूपसाक्षिवेद्यत्वं देहस्य / . ननु साक्षित्वेऽज्ञानं नोपाधिर्भवितुमर्हति सुषुप्तावज्ञानसुखसाक्षिस्फूर्तेः पुरुषान्तरस्य "सुखमहमस्वाप्सम्” इतिस्मरणप्रसङ्गात् , किन्त्व. न्त:करणमेव यदन्त:करणोपहिते संस्कारस्तत्रैव स्मरणनियमेनानतिप्रसङ्गात् इति चेन्न, सुषुप्तावज्ञानाद्याकारवृत्त्या परिच्छिन्नयाऽन्तःकररणादिसंस्कारावच्छेदेनोत्पद्यनश्यन्त्यातदरच्छेदेन संस्काराधानात्तदबच्छेदेन स्मरणादनतिप्रसङ्गात् , जीवेश्वरसाधारण्येनाज्ञानस्य साक्षि. त्वोपाधित्वात् / यथा वस्तुतोऽसङ्कीर्ण विशुद्धमप्याकाश तिमिरदुष्टलोचनो जनो विचित्राभिः केशमक्षिकादिरूपादिभिः सङ्कीर्णमिवाभि. मन्यते, निजदोषात्तथा साक्षादपरोक्षं सजातीयभेदरहितं निर्विकल्प (विजातीयभेदविकल्परहितम् ) ब्रह्महेतुभूतयाऽविद्यया सजातीयभेदभागिव विजातीयभेदभागिव प्रकाशते, अविद्यानिवृत्तौ च शुद्धब्रह्म प्रतिपत्तिः, तथाहि-कश्चित् खलु नित्याध्ययनविधिना सम्यगधीतवेदा. न्तो वेदान्तवाक्यानामापाततोऽर्थमवगच्छति /